Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 64
________________ गुणनिरूपणम् साधनमेव तथा । तथा च तदवच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारः स्यादेव । व्यापकव्यभिचारिणस्तव्याप्यव्यभिचारित्वनियमात् । न च पक्षधर्मावच्छिन्नसाधनावच्छिन्नोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारोन्नयनेऽर्थान्तरम् । विशेषणाव्यभिचारित्वेन निश्चिते साधने. विशिष्टव्यभिचारस्य सिध्यतो विशेष्यसाध्यव्यभिचारमादाय सिद्धेः । पक्षधर्मताबलात् । अन्यथा प्रतीतेरपर्यवसानात् । न च पक्षधर्मताबललभ्यसाध्यसिद्धावन्तरत्वम् । अतिप्रसङ्गात् । नापि स्वव्याघातकत्वेनानुपाधौ पक्षेतरत्वेऽतिव्याप्तिः । अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिश्चयात् । वाघोन्नीते च पक्षेतरत्वे साध्यव्यापकताग्राहकस्यांनुकूलतकस्य सत्त्वात् । उपाधिश्च न स्वव्यतिरेकद्वारा सत्प्रतिपक्षतया दृषकः । संदिग्धोपाधेरदूषकतापत्तेः । नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया । साध्यव्याप्यसाधनाभिमताव्यापकत्वेनोपाधेरेव साध्यव्यापकत्वसाधनातू । । नापि व्यभिचारोन्नायकत्वेन. । साध्यव्याप्यव्यभिचारित्वेनोपाधेरेव.. साध्यव्यभिचारानुमानात :1. तस्माद्विपक्षबाधकेन यावन्नोपाधे साध्यव्यापकत्वं निश्चीयते . तावदुपाधित्वाभावेन दूषणतैवास्य नास्तीति न दूषकतावीजचिन्ता- 1 तन्निश्चये च साधनाभिमतस्य साध्यव्यापकत्वानिश्चयान्न तद्वयभिचारित्वेन. त: दव्यापकत्वेनोपाधेः साध्यव्यभिचारित्वं . साध्याव्यापकत्वं वानुमीयत इति संक्षेपः।. .. : :: दर्शनादर्शनेति । बाह्यस्य व्याप्तिरूपस्य ग्रहणे सहकारि

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107