Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
.
किरणावलीप्रकाशः १७९ वच्छिन्नसाध्यव्यापकत्वे साधनाव्यापक उपाधिराटेंन्धनप्रभववह्निमत्त्वादेः केवलसाध्यव्यापकस्योपाधेरसंग्रहात् । को हि पक्षवृत्तिधर्मस्तदवच्छेदकः । शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वस्योपधित्वप्रसङ्गाच्च । भवति हि शब्दत्वादिजातौ साध्याव्यापकमपि शब्दवृत्तिगुणत्वावच्छिन्नाभिधेयत्वस्याश्रावणत्वं व्यापकम् । एतेन साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्यपास्तम् । आर्दैन्धनप्रभवत्वादेरुपाधेरव्यापनात् । जलं प्रमेयं रसवत्त्वादित्यत्र रसवत्त्वावच्छिन्नपमेयत्वव्यापकस्य पृथिवीत्वस्योपाधित्वापाताच । नापि पक्षात्तित्वे सति साध्यव्यापकत्वम् । अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वस्यानुपाधित्वापत्तेः । पक्षत्तित्वात् । नापि साध्यसाधनसंवन्धव्यापकस्वे सति साधनाव्यापकत्वमुपाधित्वम् । उपाधिना साध्यव्यभिचारानुमाने साध्यव्यापकव्यभिचारित्वस्यैव गमकल्वे व्यर्थविशेषणत्वात् । नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वम् । विषमव्याप्तस्यानुपाधितापत्तेः। व्यभिचारोनायकत्वस्य दृषकताबीजस्य तत्रापि सत्त्वाद । इदं साधनमेतत्साध्यात्यन्ताभाव वद्वृत्ति एतत्साध्यव्यापकाव्याप्यत्वादिति प्रयोक्तुं शक्यत्वादिति ।
उच्यते । पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकस्वमुपाधित्वम् । यद्धविच्छेदन साध्यं प्रसिद्धं तदवच्छिन्नं पर्यवसितं सांध्यम् । तत्रादॆन्धनवयाग्रुपाधौ महानसत्वाधेव तादृशो धर्मः । तदवच्छेदेन साध्यस्य धूमस्य प्रसिद्धः । पक्षधर्मापच्छिन्नसांध्यव्यापकोपाधी द्रव्यत्वं, साधनावच्छिन्नसाध्यव्यापकोपाधी
.
.
.

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107