Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 49
________________ किरणावली प्रकाशः विशेषणज्ञानं विना विशिष्टज्ञानानुत्पत्तेरिति । ननु तथाप्यनोपाधि-- कत्वं भूयोभिरपि दर्शनैतुिमशक्यम् । योग्यानामुपाधीनां योग्यानुपलब्ध्याऽभावनिश्चयेऽप्ययोग्यानामुपाधीनाममावस्य ग्रहीतुमशक्यत्वात् । अनुमानात्तद्ग्रहे तत्राप्यनौपाधिकत्वग्रहायानुमानान्तरापेक्षायामनवस्थानात् । तथा च भूयोदर्शनस्यापि संशायकत्वात्ततोऽपि न व्याप्तिग्रहः । इह समव्याप्तस्यैवोपाधित्वपक्षमाश्रित्य समाधिराचार्येणैव रक्ष्यते । विषमव्याप्तस्याप्युपाधित्वपक्षे व्यभिचाराभावज्ञानसहकृतं सहचारज्ञानं व्यासिग्राहकम् । न च सर्वेषां व्यभिचाराभावज्ञानं ज्ञातुमशक्यं स्वीयतया ज्ञानाभावज्ञानं च व्यभिचारिसाधारणमिति वाच्यम्। न हि व्यभिचारज्ञानाभावो ज्ञात उपयुज्यते । किन्तु स्वरूपसन्नेवेन्द्रियसहकारी । व्यभिचारज्ञानं च तनिश्चयस्तच्छङ्काशङ्का च क्वचिदुपाधिसंदेहात क्वचिद्विशेषादर्शनसहकृतसाधारणधर्मदर्शनात । तद्विरहश्च क्वचिद्विपक्षबाधकतर्काव क्वचित स्वतः सिद्ध एव । न च तर्कव्याप्तिमूलत्वेऽनवस्था । यावदाशङ्ख तर्कानुसरणात् । यत्र व्याघातेन शळेव नावतरति तत्र तकै विनैव व्याप्तिग्रहः । तथाहि । धूमो यदि वन्ह्यसमवहितसामग्र्यजन्यत्वे सति वन्हिसमवहिततदजन्यः स्यान्नोत्पन्नः स्यादित्यत्र किं धूमो वन्हेरेव भविष्यति, क्वचिद्वन्हि विनापि स्यादकारणक एवोत्पन्नः स्यादेवाशङ्का स्यात् । सर्वतस्तु क्रियाव्याघातः । यदि गृहीतान्वयव्यतिरेकं हेतुं विना कार्योत्पत्तिं शङ्केत कथं नियमेन धूमार्थं वन्हिमुपाददीत । न हि यद्व्यतिरेके यस्योत्पत्तिराशक्यते तदर्थ नियमतस्तदुपादीयत इति संभवति । न च केवलान्यायिनि व्यभिचारशङ्काया असम्भवः ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107