Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 55
________________ किरणावलीप्रकाशः १७१ तेति । अव्यभिचारज्ञाननिदानीभूनेत्यर्थः । नन्वनौपाधिकत्वमुपा· ध्यभाव इति कथं तेनैव तन्निश्चयः । मैंवम् । अनौपाधिकत्वविशिष्टः संवन्धो व्याप्तिरिति विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वात् । .. आकस्मिकत्वेति । यदीदं कार्यमकारणकं स्यात् कादाचित्कं नस्यादित्यर्थः। निःस्वभावत्वेति। एतद्वयतिरिक्तवृत्तिधर्मशून्योऽयं यद्येतद्वयभिचारी स्यात् एतद्धर्मवान् न स्यादित्यर्थः । ताभ्यामिति। येनोपायेन तादात्म्यतदुत्पत्ती गृह्यने तेनैव प्रतिबन्धोऽपि · गृह्यत इत्यर्थः । तयोरेवति । तादात्म्यतदुत्पत्तिव्याप्यत्वं प्रतिवन्धस्येत्यर्थः।ते एवेति। तादात्म्यतदुत्पत्ती एवेत्यर्थः । तयोर्व्याप्यव्यापकाभिमतयोरित्यर्थः । उपाधिदर्शनादेति । यथोपाधिनिश्चयेऽपि व्यभिचारसंशयस्तथा वक्ष्यामः । भूयो भूयः सहचरितयोः पार्थिवत्वलोहलेख्यत्वयोरित्यर्थः। . चतुर्थविकल्पस्यायं विकल्पं दूपयति-तत्रेति । व्यभिचारशङ्काप्युपाधिदर्शनादिति दूषयति-व्याभिचारशङ्कापीति। तच्छकया वेति पक्षं दूषयति-अतीन्द्रियाणामिति।प्रमाणपथेति । — तादृशशङ्कया तदुत्पत्तेरप्यनिश्चयान ततः प्रतिबन्धनिश्चय इत्यर्थः । - भूयो भूयः इति चरमं पक्षं दूपयति-सहचरितयोरिति । · सिद्धौ, सिद्धयर्थमित्यर्थः । तादात्म्यतदुत्पत्ती एव प्रतिबन्ध इति ‘दूषयति-विशेषस्त्विति। अवश्यं हि प्रथमपक्षनिराकरणपरत्वमस्य . वाच्यम् । अन्यथा प्रतिबन्धग्राहकतादात्म्यादेरननुगमस्य तद्गाहक चक्षुर्लिङ्गादिवददोषत्वात् । तादात्म्यस्य : गमकत्वं. दूषयति- तादात्म्यं चेति। नियामकमाशय दूषयति-संयोगित्वेति ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107