Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 59
________________ 'किरणावलीप्रकाशः १७५ यद्वा-उपाध्यभावो व्याप्नेर्लक्षणमित्युक्तं , व्याप्तिस्त्वव्यभिचरितः संबन्धः । तथा च व्यभिचार इति प्रथमान्तमेव । साधने सोपा. धिरिति । ननु साध्ये सोपाधिरप्युपाधिर्भवत्येव यथा पर्यवसितसाध्यव्यापकः, तत्र यद्यपि पर्यवसितं साध्यमप्रसिद्ध तथापि साध्ये यत्पर्वतीयत्वादिकं पर्यवस्यति तद्व्यापकः स्यात् तद्व्यतिरेकाच्च पर्वतीयत्वव्यतिरेक उन्नेतुं शक्यते । . . .. .. मैवम् । व्यभिचारोनायकस्योपाधेरत्र लक्षणीयत्वात । व्यापकानामाकाशादीनामुपाधित्वे समव्याप्तिकोपाधिपक्षमाश्रित्य दुषणमाह-चन्हे सार्वत्रिकत्वेति। एवमग्रेऽपि । विषमव्याप्तिकोपाधिपक्षे साधनव्यापकत्वं तेषामिति भावः। नित्यानामिति। परपाण्यादीनामित्यर्थः । अत्रापि विषमोपाधिपक्षे साधनव्यापकत्वमेव दोषोऽभिमेतः । उभयेति। साधनं साध्यं चेत्युभयम् । उभयव्यासा इत्यर्थः । यधप्युभयाव्यभिचार्यनित्यः प्रमाणपरिदृष्टो नैयायिकानामप्रसिद्धः महानसादीनामुभयव्यभिचारित्वात वह्निमत्त्वस्य चोपार्नित्यत्वात् । तथापि वह्निरेव वहिव्यापकस्तथाभूतः प्रसिद्धः । अभेदेऽपि व्याप्यव्यापकभावादिति भावः । - तत्रेति । प्रथमे साधनव्यापकत्वात् । द्वितीये साध्याव्यापकत्वादित्यर्थः । धूममात्रोति । मात्रशब्दोऽत्र सामान्यार्थों 'न तु व्यवच्छेदार्थः । वह्निधूपयोाप्त्यभागापत्तेः । पूर्व इतिः। साधनव्यापकत्वादित्यर्थः । व्याप्यमात्रेति । मात्रपदेन वहिव्यापकत्वनिषेधः । तथा च साध्याव्यापकत्वमित्याह-पूर्व इति । उभयरूपा इति । साध्यव्याप्यत्वे सति साध्यव्यापक इत्यर्थः। सा चेति ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107