Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः १७३ कसाध्यव्यापकोपाधौ पक्षधर्मतामात्रव्यातिरेकात् । यथा तौंतातित (क!) दिशा नित्यः अद्रव्यद्रव्यत्वादित्यत्र बहिरिन्द्रियाग्राह्यत्वमुपाधिः । मैवम् ।: साध्यव्यापकसाधनाव्यापकोपाधिमादाय विचारात.। व्यभिचारे चावश्यामिति । ननु व्यभिचारादेवागमकत्वे व्यभिचारादुपाध्यनुपानं व्यर्थम् । अत्र व्यभिचारिण्येकत्र साधने साध्यतदभावसंवन्धोऽवच्छेदभेदं विना नेति साध्यसंवन्धितावच्छेदकमेकमवश्यामिति तदेवोपाधिरित्यस्मत्पितृचरणाः । - तथापीति । यद्यपि यद्यव्यभिचरितः सवन्धो व्याप्तिः स्यात् तदा व्यभिचारस्थैव व्याप्त्यभावने तन्निश्चयार्थमुपाध्युद्भावनमनुपयुक्तं स्यात् । न चैवम् । किन्तु निरुपाधिः संवन्धो व्याप्तिरित्युक्तम् । तथापि निश्चितेऽपि व्यभिचारे व्याप्तिभङ्गायोपाधिरवश्यमनुमतव्यः । तथा च व्यभिचारेऽवश्यमुपाधिसत्त्वाद्वयतिरेकानिश्चयेन सामान्यत उपाधी निश्चिते विशिष्य तदनुसरणं व्यर्थम् । तस्य व्यभिचारस्य तदर्थत्वादुपाधिनिश्चयादित्यर्थः । वस्तुतस्त्वव्यभिचरितः संवन्धो व्याप्तिलाघवात् । अनौपाधिकत्वं तु तल्लक्षणमिति. . व्यभिचारस्य साक्षानिश्चये - उपाध्यनुसरणं व्यर्थमित्येवंपरो ग्रन्थः । न चैवमव्यभिचारस्य व्याप्सित्वे व्यभिचारस्तदभावत्वेनासिद्धः स्यान्नं त्वधिक इति वाच्यम् । साध्याभावंवद्गामित्वं हि व्यभिचारस्तदभावश्च नाव्यभिचारः। केवलान्वयिन्यभावाद । किन्तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् । न चानयों परस्पराभावरूपत्वम् । : नन्वेवमुपाधिरसिद्धयुपजीव्यत्वेनः सव्यभिचारवरेत्वाभा

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107