Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः १६९ न च तदनुमानेति । यो धूपवान सोऽग्निमानिति केवलव्याप्तिज्ञानादनुमित्यनुत्पत्तेरित्यर्थः। . ... उपनयार्थ इति।व्याप्तिविशिष्टस्य पक्षधर्मत्वमित्यर्थः । अनौपाधिकः सम्बन्ध इति । यद्यप्यनौपाधिकत्वस्य साध्यव्यापकमाघनाव्यापकधर्मशून्यत्वज्ञाने व्यापकज्ञानस्य व्याप्यज्ञानसापेक्षतया न परम्पराश्रयः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वस्य व्यापकत्वात् । नापि प्रतियोगित्वस्य विरोधित्वात्तस्य च सहानवस्थाननियमरूपत्वादात्माश्रयः । न हि प्रतियोगित्वं विरोधित्तम् । गोत्वाश्वत्वयोर्विरोधेऽपि प्रतियोगित्वाभावात् । किन्तु भावविरहात्मकत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं व्यभिचारिण्यपि । नापि प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं तव । तादृशधर्मज्ञानं विना तदभावानिरूपणे सिध्यसिद्धिव्याघातात् । यावद्वान्हमत्वव्यापके धूमवत्त्वाव्यापकत्वं यावद्भूमंवत्त्वाव्यापके वाहिमत्त्वव्यापकत्वमिष्यत इति चेत् । न । तादृशधर्मनिपेधस्य व्यधिकरणतया धूमत्वेऽनुपयोगात् । साध्यव्यापकव्याप्यत्वे चात्माश्रयात् । साध्यं यावदव्यभिचारि तदव्यभिचारित्वं तदिति चेत् । न । साध्याव्यभिचारित्वस्यैव प्रयोजकत्वे, शेषवैय
र्थ्यात् । न चेष्टापत्तिः । साध्यवद्भिन्नसाध्यात्यन्ताभाववदत्तित्वस्य केवलान्वयिन्यसंभवाव । नापि स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यं व्याप्तिः । यत्किञ्चिद्वन्ह्यत्यन्ताभाववति धूमस्य वृत्ते, संयोगादेरव्याप्यवृत्तेव्यत्वाचव्याप्यतापत्तेः । न च संयोगित्वं द्रव्यव्याप्यम् । संयोगस्येव तत्सम्बन्धस्याव्याप्य

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107