Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१६८ . गुणनिरूपणम् . वन्हिनिरूपितधूमाकैकवृत्तिव्याप्तेः सकलधूमादिव्याप्यतावच्छेदकत्वादाश्रयभेदेन व्याप्तिभेदादिति वाच्यम् । सकलधूमादिवृत्तिव्याप्ती मानाभावात् । यत्र वन्हिव्याप्यस्तत्र वन्हिरिति व्याप्तिबुद्धा
कैकत्तिव्याप्त्याश्रयस्यैव विषयत्वात् । अतीन्द्रियेऽसनिकृष्टे लिने व्याप्तिस्मरणधूमत्वज्ञानसहितेन मनसा तदुत्पादनमिति । । : ननु व्याख्येयग्रन्थेऽग्न्यध्यवसायो भवतीत्यभिधानात्तद्विरोध इत्यत आह-अग्निरध्यवसीयत इति ।: , . भावव्युत्पत्तिपरित्यागे हेतुमाह-तत्परमिति । अग्निज्ञान परम् । तद्भवति परामर्शज्ञानं भवतीत्यर्थः । ननु तत्परत्वमेवास्य कथमित्यत आह-प्रमाणमिति। ननु द्वितीयलिङ्गदर्शनस्यानुमित्यव्यवहितमाकालतयानुमितिजनकत्वे को दोष इत्यत आह-यद्यपीति।जिज्ञासावशादिति । ननु धूमनिहत्तौ परामर्शो न प्रत्यक्षे.. णेन्द्रियासन्निकर्षात् । नाप्यनुमानेन । तस्य परामर्शजन्यत्वेन सोऽपि परामर्शो धूमविषयक एव केन जननीयः । नानुमानेनैव । अनवस्थानात् । न च व्याप्तिपक्षधर्मताबुद्धिभ्यामेव तज्जननम् । प्रमाणान्तरत्वापत्तेः । नापि तत्सहकृतेन मनसैव । तस्य बहिरस्वातन्त्र्यात् । __अत्राहुः । प्रमेयत्वादावतीन्द्रिये ज्ञानोपनीतत्वेन व्याप्तिग्रहः तत्रापि लिङ्गपरामर्शः । तेन वाक्यस्यति । तस्य परामर्शोत्थापकत्वादित्यर्थः । हेतुवाक्यस्य पक्षधर्मतारहितलिङ्गमात्रोपस्थाकत्वाद्वादिवाक्यस्य सिद्धलेनोपपत्त्यनाक्षेपकत्वात ! परार्थानुमाने उपनयस्य पक्षधर्मताप्रतिपादनमेव व्यापारः । स्वार्थानुमाने तु द्वितीयलिङ्गदर्शनादेव तल्लाभान्न परामर्शोपयोग इत्याइ-पक्षधर्मतेति ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107