Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 50
________________ १६६ गुणनिरूपणम् ..... अत्रापि साधनसमानाधिकरणात्यन्ताभावप्रतियोगि साध्यं न बेति तस्याः सम्भवात् । व्यापकतागोचरत्वेऽपि तस्याः समानसंवित्सचेद्यतया व्याप्यतागोचरत्वात् । . . . : . अन्ये तु । काश्चिव्याप्तयः सर्वपाणिसाधारणा अनादिसिद्धा एव । यथा कार्यकारणभावविरोधादिः । कथमन्यथा जातमात्रस्य स्तनपानादौ प्रवृत्तिः अहिते निवृत्तिश्चेत्याहुः । . . " तथाविधामिति । यद्पावच्छिन्ने व्याप्यत्वं तद्रूपोपस्थितादनुमितिः । तथा च धूमपदेन तादृग्धूमाभिधानं लक्षणया स्यात् । न च वादिवाक्ये लक्षणायां प्रमाणमस्ति । न हि तेनं समीचीनमेव वक्तव्यम् । अज्ञानस्यापि संभवात् । अन्यथा हेत्वाभासेऽप्युक्त सद्धेतुलक्षणया वादिभङ्गो न स्यादित्यर्थः ।। ... प्रथमत एकमिति । व्याप्तिग्रहणरूपमित्यर्थः। दूरादिति। यत्र धूमविषयक एव दूराद्वस्तुत्वेन परामर्शः, दैवाच्च धूमो वन्हिव्याप्य इति स्मृतेस्तत्र वस्तुगत्या. यल्लिङ्गं तस्य ज्ञान च्याप्तिस्मृतिश्चेत्येतावतोऽनुमितिहेतोः सत्त्वेनानुमित्यापत्तरित्यर्थः । . द्वितीयस्त्विति । तस्य पक्षधर्मताविषयत्वेऽपि व्याप्तिवैशिष्टयविषयत्वादित्यर्थः। ... लिङ्गत्वोल्लेखीति । व्याप्तिविशिष्टपक्षधर्मस्य लिङ्गपरामर्शस्तृतीय इत्यर्थः । तथा च व्याप्तिस्मृतिः करणं तृतीयलिङ्गपरामर्शों न्यापार इत्युक्तम् । : अन्ये तु । क्रियया अयोगव्यवच्छेदेन संबन्धित्वस्य करणत्वाव्यापाराभावेऽपि तृतीयलिङ्गपरामर्शः करणमित्याहुः ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107