Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१६४ . गुणनिरूपणम् दित्यत्र वहिर्न धूमस्य गमक इत्यर्थः । यथाहारेति। मनुष्यश्यामत्वे शाकपाकजत्वस्यैव गमकत्वं न तु तद्विशिष्टस्य मैत्रतनयत्वस्य व्यर्थविशेष्यत्वादित्यर्थः। .. . .. - ननु भूयांसि दर्शनानि. प्रत्येकं न गमयन्ति । सकृद्दर्शनगम्यत्वापत्तेः । नापि मिलितानि । आशुविनाशिनां क्रमभाविनां मेलकासंभवादित्यत आह-भूयोदर्शनं हीति । यथा प्रत्यभिज्ञायां संस्कारसहितमिन्द्रियं हेतुस्तथा तावद्दर्शनजन्यसंस्कारसहितमत्रापि तथेत्यर्थः। - तथाहीति । विशेषैरवान्तरजात्यादिभिर्मणिः पद्मरागादिव्यवहारविषयो धारकस्य शुभाशुभजनकश्चानुमीयत इत्यर्थः । अनौपाधिकत्वज्ञानस्य व्याप्तिज्ञानहेतुतया साध्यसहचरितानामनुपाधित्वनिश्चयस्य साध्याव्यापकत्वसाधनव्यापकत्वनिश्चयसाध्यत्वात्तस्य च भूयोदर्शनसांध्यत्वादित्याह-ततश्चेति । ननु भूयो दर्शनं त्रिचतुरादिरूपतयाऽननुगतं न हेतुरित्यत आह-न चात्रेति। __इदमत्राभिसंहितम् । उपाध्यभावो नानौपाधिकः । यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वस्य धूमेऽप्यसत्वात् । व्यभिचारिण्यपि गतत्वाच्च । प्रकृतसाध्यव्यापकसाधनाव्यापधर्मशून्यत्वस्य च सिद्धयसिद्धिभ्यां व्याहतत्वात् । किन्तु यावत्स्वव्यभिचारिव्यभिचारिसामानाधिकरण्यम् । तच्च न सकृद्दर्शनगम्यम् । किन्तु वस्तुगत्या या व्याप्तिस्तज्ज्ञानं नानुमितिहेतुरतिप्रसङ्गात् । किन्तु व्याप्तित्वेन । तच्चोपाधेरेव ज्ञाने तथात्वेन ज्ञानं संभवति ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107