Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाशः समानम्। अन्वयव्यतिरेकाविति! सहचारदर्शनं व्यभिचारादनिश्चेत्यर्थः। यद्यप्येतत् केवलव्यतिरेकिणि केवलान्यायिनि च न सम्भवति । तथाप्यन्वयव्यतिरेकिणि तत्सम्भव इति तदभिमायेणेतस्याभिधानम् । ननु न भूयोदर्शनगम्या व्याप्तिः। तथाहि न भूयामि दर्शनानि व्याप्तिग्राहकाणि । एकत्रैव धारावाहिकेन तद्ग्रहापनेः । नापि भूयःसु स्थानेषु दर्शनम् । एकाश्रयाधिनरूपरसयोस्तदभावात् । नापि भूयसां दर्शनं गोवद्रव्यत्वयोस्तदभावात । भूयो दर्शनेऽपि पार्थिवत्वलोहलेख्यत्वयोर्व्यभिचारे व्याप्त्यग्रहात । अनः पारिशेष्यात सकृद्दर्शनगम्यैव व्याप्तिः । उपाध्यभावस्य व्याप्तिस्वात् । तस्य च केवलाधिकरणरूपतया चक्षुरादिना प्रथमदर्शनगम्यत्वादित्यत आह-अन्ययव्यतिरेकाभ्यामिति । व्यापकान्वयव्यतिरेकप्रयुक्तव्याप्यान्वयव्यतिरेकाभ्यामित्यर्थः । नन्वेवं प्रथमदर्शन एव व्यासेनिश्चयादग्रे संशयानुपपत्तिरित्यत आहशङ्कामात्रन्त्विति । व्याप्तिज्ञानेऽपिकि सन्नप्युपाधिर्मयोपाधित्वेन न ज्ञातः किं वोपाधिरेवात्र नास्तीति संशयात्तदुपपत्तेः । न हाग्रिमसंशयानुरोधात् पूर्व व्याप्तिनिश्चयसामग्र्यामपि न तनिश्चय इति युज्यते । घटसामग्र्यामपि तथा कल्पनापत्तेः । न चैवं प्रथमदर्शनानन्तरमेवानुमितिः । उपाधिस्मरणसहकृतस्य योग्योपाध्यनुपलम्भस्यानुमितावुपाध्यभावव्यवहारे च कर्तव्ये व्याप्तिज्ञानसहकारित्लादिति भावः । नन्वेतावतापि सकदर्शनगम्यत्वं न च्यार्निरालागित्यत आइ-इदमत्रेति । यथा वह्निरिति । आन्धनमखगुपाधिमादाय वहिवूमेन संह.. व्याप्त इति तदभावेऽयं धूगनान घनिगरमा

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107