Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाशः १६१ यद्यपि चेति । नन्वनुमेयः पक्षः कचिद्देशे काले च भवतीति देशकालनैयत्यमेवानुमाने. । अत्राहुः । सर्वत्रानुमाने तयोः स्वरूपसतोरेव प्रयोजकत्वं ज्ञायमानयोः क्वचित्तत्वमित्यभिप्रेत्योक्तम्तथापि क्वचिदिति । यत्र देशविशेषकालविशेषविशिष्ट एव पक्ष इत्यर्थः । एतचेति । क्वचिद्देशकालप्रयोजकत्वम् । भूयो भूय इति । ननु भूयोदर्शनगम्या व्याप्तिर्न तु व्याप्ते योदर्शनमनुमानोपयोगि । मैवम् । संवादेन यत्र व्याप्तिग्रहस्य प्रामाण्यं गृह्यते तदभिप्रायेणोक्तत्वात् । व्यातिरकदृष्टान्तस्यापीति । एतच्चानाप्रमाणत इत्यनुषङ्गालभ्यते। अन्यथेति। हेत्वाभासस्यापि काल्पनिकव्यतिरेकदृष्टान्तसंभवादित्यर्थः । इति व्युत्पत्त्यति सपक्षेऽप्रसिद्धोऽगृहीतव्याप्तिक इति व्युत्पत्त्येति योजनीयम् । किन्तु पक्षेऽसन्निति । न चैवं स्वरूपासिद्धस्यैव संग्रहे व्याप्यत्नासिद्धस्यासंग्रहः । तस्य पूर्वोक्तव्युत्पत्त्यैव लब्धत्वात । चकारादिति । न च चकारादेवान्यहेत्वाभाससंग्रहाव कृतमनपदेशपदात्त्यति वाच्यम् । आवृत्तेनानपदेशपदेन लक्ष्याभिधानाचकारेण च कालात्ययापदिष्टः प्रकरणसमयोर्लक्षणाभिधानात् । अप्रसिद्धपदेनेति । चकारेणेत्यथः। नन्वेवं हेत्वाभासलक्षणे तयोरुपग्रहेऽपि हेतुलक्षणपरसंग्रहश्लोके कथं तयोनिराकरणमित्यत आह-प्रसिद्ध चेति । तयोः कालात्ययापदिष्टपकरणसमयोरित्यर्थः। आपातत इति वाधसत्प्रतिपक्षानुपजीवने । व्याख्यान इति वाधसत्पतिपक्षोपजीवने ।
ननु सत्प्रतिपक्षे व्याप्यत्वासिद्धिरपक्षधर्मता च नावश्यकी, सदनुमानस्यापि कदाचित्सत्प्रतिपक्षत्वात् । .

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107