Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 43
________________ किरणावली प्रकाशः १५९ पस्थितेऽपरस्यापि पदादेवोपस्थितिरन्वयवोधाङ्गमित्यन्यत्र व्यव स्थापितमिति पदजन्य पदार्थोपस्थितयोरुद्देश्य विधेययोः साकाङ्क्ष -: त्वमिति तदुपस्थापकयोरपि साकाङ्क्षत्वम् । तत्रापि व्युत्पत्ति - " सिद्धोऽयमर्थो यद्यत्पदार्थोपस्थितमेवोद्देश्यमादाय तत्पदार्थस्य विधेयस्यान्वयः । एवं यत्पदार्थस्यापि तत्पदोपस्थापितमादायेति । पक्षधर्मतेति । सिषाधयिपाविरह सहकृत साध कममाणाभाववान् धर्मी पक्षः । व्यापकतावच्छेदकप्रकारानुमितिप्रतियोगिकविषयताश्रयः पक्ष इत्यन्ये । एवं च सतीति । यद्यपि पक्षैकदेशवृत्तिरपि पक्षवृत्तिर्भवत्येवेति न ततो भागासिद्धिनिरासस्तथापि बद्धमित्यनेन सम्बन्धमात्रलाभे संशब्देन सम्यक्त्वं पक्षव्यापकत्वं लभ्यते । ननु सिद्धमित्यत एव सपक्षवृत्तित्वे प्रशब्दात् प्रकर्षवाचिनः सपक्षव्याप -- कतारूपः प्रकर्षोऽत्रगम्यते, तथा च पक्षैकदेशदृत्तिर्हेतुर्न स्यादित्यत आह-चशब्द इति । सपक्षेति । निश्चितसाध्यवान् सपक्ष इत्यर्थः । तच्छब्देनानुमेयधर्मपरामर्शेऽनन्वयादाह - तच्छब्देनेति । ननु विशेषसंज्ञायाः किं फलमित्यत आह-- एतेनेति । उक्तलक्षणहीनत्वं वाधितसत्म-' तिपक्षित योरप्यस्तीति तयोरपि लिङ्गत्वं स्यादिति विशिनष्टि-कालात्ययेति । ननु यत्र द्वितयत्रितयलिङ्गलक्षणव्यतिरेकस्तत्राप्येकल - क्षणव्यतिरेक आवश्यक इति तावन्मात्रमेव लिङ्गाभासलक्षणमस्तु कृतं द्वितीयादिव्यतिरेकोद्भावनेनेत्यत आह— एतेनैतदुक्तमिति । सिद्धे हेतुस्वरूप इति । ननु सिद्धत्वं व्याप्तस्य पक्षधर्मत्वं तद्वय -"

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107