Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 44
________________ . गुणनिरूपणम् । तिरेकश्चासिद्धत्वं तथा सिद्धे हेतुस्वरूपे विरुद्धादिदोषाणामवकाश इति व्याहतम् , न हि. व्याप्तस्य पक्षधर्मत्वे विरुद्धादिसंभवः । मैवम् । असिद्धिरनुमितिकारणाभावरूपतया साक्षाषणं विरुद्धादयस्त्वसिद्ध्युपजीवकत्वेन । परम्परादृषणानामुपजीव्यत्वात समानतन्त्रे प्रथममसिद्धिद्भावितेत्याशयः । स्फुटप्रतिभास मिति । उभयवादिसंप्रतिपन्नमित्यर्थः । बलवदिति । उपजीव्यमित्यर्थः । ननु संदिग्ध इत्यत्र संदिग्धपदं नानैकान्तिकवाचकमित्यपदार्थव्याख्यानामत्यत आह । संदिग्ध इति । यद्वस्तु यत्काले यत्कोटिकत्वेन संदिग्धं भवति न तत्काले तद्वस्तु तत्कोटावनैकान्तिकत्वेन निश्चिनोतीति संदिग्धपदं लक्षणयानैकान्तिकं ब्रूत इत्यर्थः । लक्षणमुदाहरणेन स्फुटयितुमाह-स हि धर्मद्रयेत्यादिनापि विपक्षाव्यावृत्तिरित्यन्तेन । नन्वनैकान्तिकं द्वाभ्यामपि लिङ्गलक्षणाभ्यां हीनं भवति तत्किं नोदाहृतं यथा जलहृदो धूमवान् वह्निमत्त्वादित्यादि । इदं हि पक्षावृत्ति सपक्षविपक्षत्ति चेति । न । स्वरूपासिद्धयसंकीर्णानकान्तिकस्योदाहियमाणत्वात् । विरुद्धस्त्विति । यद्यपि विरुद्धस्त्रिभिरपि धमविपरीतो भवति, यथाऽनित्यः शब्दोऽकृतकत्वादिति । अयं हि पक्षसपक्षावृत्तिर्विपक्षवृत्तिश्चेति । तथाप्यसिद्धासंकीर्णो विरुद्धोत्रोदाहियत इति नोक्तः। .. द्वाभ्यां चेति । ननु चाप्रमेयस्याप्रसिद्धया कुत्रासिद्धिनिरूप्या । अत्राहुः । अप्रमेयत्वादित्यनेनात्तिराकाशादिहेतुत्वेन विवक्षितः। . . . . . .

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107