Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 42
________________ १५० गुणनिरूपणम् . मैवम् । लिङ्गदर्शनविषयस्य साक्षात्कारिणः संशयस्य लिङ्गदर्शन: जतया तस्य व्यवच्छेद्यत्वाव। . . ..ननु स्मृतियथार्था नासम्यगर्थेत्यत आह—स्मृतिरपीति । रज्जु सर्पतयानुभूय पलायितस्य तथैव स्मृतेरित्यर्थः। अत्र व्याप्तस्य. पक्षधर्मतावैशिष्टयं लिङ्गत्वं, तद्विषयं ज्ञानं तृतीयलिङ्गपरामर्शः, तज्जन्योऽसाक्षात्कार्यनुभवोऽनुमितिः । अनुमिनोमीत्यनुगतानुव्यवसायाद्वानुमितित्वं जातिः । .. ननु संजायमानमिति वर्तमानतानिर्देशाद्वर्तमानज्ञानस्यानुमानता नत्वतीतस्यानागतस्य वेत्यत आह-वर्तमानापदेशस्येति। निरुपाधीति । अत्र पक्षधर्मत्वे सतीति द्रष्टव्यम् । इतिकर्तव्य तेति । इतिकर्तव्यता व्यापारः तद्वत एव करणत्वात् । .... ..एतेनेति । प्रमाणं त्वत्र धूमवानयमग्निमानित्यनुमिति: ज्ञायमानविशेषणजन्या विशेषणसमानकालाशाब्दविशिष्टज्ञानत्वात दण्डी पुरुष इति प्रत्यक्षवत् । युक्तं चैतत् । लिङ्गज्ञानस्य प्रमात्वं विद्यमानलिङ्गविषयकत्वमतः परामृश्यमानस्यैव लिङ्गत्वम् । यत्र चातीतानागतयोलिङ्गत्वं तत्र यद्यपि कारणविशेषो लिङ्गं न सम्भवति । तथापि धूमप्रागभावध्वंसावेव तत्र लिने तयोरपि धूमवद्वह्निव्याप्यखाद। यच्छब्दसापेक्षत्वादिति। यच्छन्दस्योद्देश्याभिधायित्वात् तच्छब्दस्य विषयाभिधायित्वादुद्देश्यविधेययोश्च मिथः साकाङ्क्षवादित्यर्थः । ननूद्देश्यविधेययोस्तथात्वेऽपि तद्वाचकपदयोः कथमाकाङ्क्षा, आकाङ्क्षायामपि तद्वाचकपदार्थमात्राकाङ्क्षास्तु, नियमेन तत्पदाकाङ्क्षा कथम् । उच्यते । तयोरेकस्मिन शब्दादु:

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107