Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१५६ :. गुणनिरूपणम् . ___ अत्राहुः । शब्दानेव शृणोति योजनशतादिति योगजधर्म विशेषफलादन्यत्रापि.योगजधर्मस्य साक्षात्कारजनकत्वम् ।
स्वर्गादीनामिति। यद्यपि स्वर्गिणां स्वर्गः प्रत्यक्ष एव तथापि मर्त्यलोकस्थातीन्द्रियत्वमभिप्रेत्योक्तम् । जन्यसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वमत्र साध्यमतो नोपनीतसाक्षात्कारेण सिद्धसाधनम्। यद्यप्यनेन विमुक्तमात्रस्य सिद्धिर्न मुक्तस्य, मुक्तसाक्षात्कारस्य जन्यसविकल्पकजन्यत्वात् । तथाप्यागमात्तस्यापि सिद्धिः। . धर्मिग्राहकमानबाधमङ्गीकृत्याह-मीमांसका गुरव इति । उत्तरप्रबन्धोपयोगार्थमाह-नान्विति।स्वरूपालोचनमात्रमिति। मात्रपदाद्विशिष्टविषयकत्वव्यवच्छेदः । यदि प्रत्यक्षं फलमात्रं विवक्ष्येत तदा तस्य पूर्वमुक्तत्वाद पौनरुक्त्यं स्यादिति विशिनष्टिप्रत्यक्षं प्रमाणामिति । सामान्यविशेषज्ञानमपीति । निर्विकल्पकमपीत्यर्थः। . दूषणं निरस्यति-आलोक्यतेऽनेनेति । तत्र मात्रपदव्यवच्छेद्यं नास्तीत्यन्यथा व्याचष्टे-स एवेति । संनिकर्पोऽपि योगजः फलं भवत्येवेत्यत आह-प्रमारूपमिति। . ननु कार्यस्य कारणसाध्यत्वे कारणस्यापि कार्यतया कार• णान्तरसाध्यत्वेऽनवस्था स्यादित्यत आह-न चैवमनवस्थेति । संशयविपर्ययरहितमिति। यद्यपि संशयविपर्ययात्यन्ताभाववाद्विशिष्टज्ञानमपि भवति तथापि संशयविपर्ययभिन्नमित्यर्थः । तथापि सत्यं विशिष्टज्ञानमपि तथा भवत्येवेत्यत आह-अव्यपदेश्यमिति। तस्य विवरणं शब्दाजन्यमिति । ननु व्यपदिश्यतेऽनेनेति

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107