Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१५४ . गुणनिरूपणम् . अन्ये तु । आश्रयाग्रहणेन सत्ता गृह्यतेत्यर्थः । परमाणुष्वपी. ति तु सत्ताया इन्द्रियसंनिकर्षनिर्वाहार्थमित्याहुः। रूपत्वादाविति। रूपत्वादिसिद्धिश्चान्वीक्षातत्त्वबोधे न्यायनिबन्धकाशे चानिपुणतरमुपपादिता । शब्दत्वादीत्यादिशब्दात कत्वादिपरिग्रहः ।...
ननु संयुक्तंसमवायो न प्रत्यासात्तिः, आश्रयसंयोगादेव रूपादिग्रहोपपत्तेः, तथाश्रयाश्रयसंयोगाद्रूपत्वादिग्रहसंभवात् संयुक्तसमवेतसमवायोऽपि न प्रत्यासत्तिरित्याह-किमनेनेति । वयं हीति । यद्यपि शब्द इन्द्रियसमवेत एव गृह्यते न विन्द्रियसंवद्धसमवेतस्तथापि प्रायिकत्वेनाभिधानम् । वस्तुतो रूपसमवायिसंयोगे रूपसमवायस्य विशेषणत्वे हेतुत्वादुपलक्षणत्वे च संयुक्तद्रव्यमात्रस्योपलक्ष्यत्वे घटसंयोगात पटरूपग्रहापरिति भावः । ननूक्तरूपा पञ्चैव चेत्मत्यासत्तिम्त भावः कथं प्रत्यक्ष इत्यत आहअभावस्य त्विति । विशेषणता च द्विविधा । इन्द्रियविशेषणता इन्द्रियसंबद्धविशेषणता च । तत्राद्या शब्दाभावग्रहे अन्त्याऽभावग्रहे हेतुः। सा चेन्द्रियसंयुक्तविशेषणत्वादिभेदात् पञ्चविधा । ज्ञानसामान्यलक्षणे अपि प्रत्यासत्तीतत्रैवान्तर्भूते। योगजधर्मः प्रत्यासत्त्यन्तरम् । पोढा परिगणनं तु तदनन्यजन्यप्रत्यक्षाभिप्रायेण । तदव्युत्पादनं चास्माभिस्तत्रैव निपुणतरं कृतमिति नेह प्रतायते । अस्मदादीत्यत्रादिशब्दस्य प्रकारवाचित्वादेकं प्रकारमाह- अयोगिनामिति।न प्रत्यक्षकहेतुतेति । न प्रमारूपप्रत्यक्षकहेतुत्वेनेत्यर्थः। तस्य प्रमाणगृहीतार्थविषयत्वात् । तेषामिति । यथा कर्मणामांशुविनाशित्वाद कालान्तरीयफलानुकूलो धर्मः कल्प्यते । तथा योगानुष्ठानस्यापी

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107