Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाश
१५३
स्वविषयज्ञानसाध्यत्वेन स्वविषयकज्ञानासाध्यत्वात् । सजातीयत्वानपेक्षत्वे साध्ये यदि प्रकाशकत्वं ज्ञानत्वमेव हेतुस्तीसाधारण्यम् । अथालोकज्ञानसाधारणत्वं प्रकाशत्वं तहसिद्धिरित्याह:-प्रकाशकत्वादिति । बुद्धेः प्राकट्यानुमेयत्वं दूषयति--कार्यालङ्गेति । नन्वपेक्षावुद्धिभिन्ना घटबुद्धिर्घनिष्ठधर्मचरमकारणं घटवुद्धित्वात अपेक्षाबुद्धिवत् । न च भट्टरपेक्षावुद्धद्वित्वाभिव्यञ्जकत्वाङ्गीकाराद्दृष्टान्तासिद्धिः । अस्माभिरपेक्षाबुद्धेदित्वादिजनकत्वेन तैश्च प्राकट्यजनकत्वेन व्यायगीकारात । एवं च घटविषयकबुद्धेः प्राकट्यजनकत्वे सिद्धे तदृष्टान्तेनापेक्षाबुद्धरात्मविषयकबुद्धेश्च प्राकटयजनकत्वमनुमेयम् । न । आद्यानुमानेऽपेक्षाबुद्धित्वस्योपाधित्वात् । ननु ज्ञातो घट इति विशिष्टमतीतेतिताख्यः संबन्धः सिध्येत् वर्तमानविषये वाधकाभावात् । न । अतीतानागतादेस्तदभावे ज्ञातव्यवहारानापत्तेः । तस्य ज्ञातताजन्यत्वात् । न च ज्ञानविषयावेव तद्धीविषयौ । वर्तमानेऽपि तथापत्तेः । प्रतीत्योविषयवैलक्षण्याननुभवात् ।
वस्तुतोजानामीति ।मानसानुव्यवसायगम्यं ज्ञानं प्रत्यक्षम् अन्यथा मुखादिप्रत्यक्षत्वे का समाश्वासः। क्षणिकात्मविशेषगुणत्वाच्च मुखवन्मानसप्रत्यक्षत्वमनुमेयम् । अन्यथा परमाण्वादिष्विति। ननु परमाणुवृत्तिः सत्तादिर्घादौ प्रतीयत एव परमाणुत्तितया च तद्ग्रहः परमाणोरतीन्द्रियत्वेन तदप्रतीत्येव न स्यात् । नः । परमाण्वघटितसंनिकर्षेण स्वयोग्यतामात्रात सत्तादिः, प्रतीयेते-.. त्यर्थाद ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107