Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 36
________________ १५२ गुणनिरूपणम् . परेणेति । परवेदनेत्युपलक्षणम् । स्वीयमप्यतीतमनागतं च स्वव्यवहार ज्ञानान्तरमपेक्षते । व्यवहारकाले तेषामभावात् । ज्ञानान्तरान्वयव्यतिरेकानुभवाच्च । अथ स्वकीयं वेदनं वर्तमानं पक्षोऽतो न वाधक इत्यत आह-तत्परिहरिणति । विपक्षगामितयेति। स्वकीयातीतानागतज्ञानपरकीयज्ञानागतत्वावेंदनत्वस्येत्यर्थः । एतेनेति । बाधेन विरुद्धत्वेन वेत्यर्थः । ज्ञानं च न स्वविषयं स्वजनकेन्द्रियप्रत्यासत्त्यनाश्रयत्वात् । विषयत्वनियामकेन्द्रियसन्निकर्षाभावे तु विषयत्वानुपपत्तेः । मनःसंनिकर्षाश्रयत्वे च मानसत्त्वं युक्तम् । विवादपदम् इन्द्रियजन्यं ज्ञानं नैतज्ज्ञानविषयः एतज्जनकेन्द्रियपूत्यासत्यनाश्रयत्वात् असंनिकृष्टत्ववतः। चाक्षुषं ज्ञानं न चक्षुर्जन्यज्ञानविषयः चक्षुरसंनिकृष्टत्वात् व्यवहितघटवत । ननु परपूकाशकज्ञानमेव न सिध्येत् इन्द्रियसंनिकर्षादेः सर्वदा सत्त्वेन ज्ञानधारायामनवस्थानात विषयान्तरसञ्चारश्च न स्यादित्यत आहअनवस्थाप्रसङ्गस्त्विति। ननु संयुक्तसमवायेन मनोवेधत्वादपेक्षणीयान्तराभावाच्च कुतो वित्तिनावश्यवेद्या। मुखादितज्ज्ञानादिसामग्रीप्रतिबन्धात् । विषयान्तरसंचारदर्शनेन तस्या वलवत्त्वात् । अनुभवात् किञ्चिज्ज्ञानमयोग्यमित्यन्ये । अथ : यथा तद्गुणसंविज्ञानसिद्धं कूटादिपदमशक्यमपि कूटं गुणमादायैव पूधानमन्यपदार्थ बोधयति तथा ज्ञानमविषयमात्मानमादाय स्वविषयव्यवहारं करोति संस्कारं च । स्वजन्यव्यवहारविषये ज्ञानस्य संस्कारजनकत्वात् स्वजन्यव्यवहारविषयश्चात्माविषयश्चेति । न । अन्यत्र लाघवेन ज्ञानस्य स्वविषयव्यवहारसंस्काराजनकत्वात् व्यवहारसंस्कारयोः

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107