Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१५०
___ . गुणनिरूपणम् ऽर्थः । किं परमाणुमात्रमेव विवरमवकाशो येषां जलस्यन्दानुमितसूक्ष्मावकाशानाम् अथवा परमाण्वाश्रयाणामित्यर्थः । आये तत एव विभागेन व्यभिचारादेव । द्वितीयेऽसिद्धेश्चेति । संयोगविभागयोरपीति । एकस्यामपि कर्मव्यक्तौ संयोगविभागयोरुत्पन्नयोः संयोगविभागप्रत्ययः कुतो न भवतीति तुल्यमित्यर्थः। .
आश्रयामहत्त्वमेवेति । ननु कालादिगुणेषु साध्याव्यापकमेतत् । न च कार्यमहत्त्वानधिकरणत्वं तदर्थः । गुरुत्वादौ साध्याच्यापकत्वात् । न च वाधोनीतस्य पक्षेतरत्वस्य विवक्षितत्वात् गतिरनुमीयत इत्यस्यानन्तरम् अनुमाय चलतीति शेषः । एवं तर्हि यथादित्यस्य देशान्तरप्राप्यनुमानेऽपि न चलनीति धीस्तथा चैत्रेऽपि न स्यादित्यत आह-आदित्यादाविवति । न तीति । तत्रापि देशान्तरस्थाकाशादेरतीन्द्रियतया तत्माप्तेरज्ञाने तया गत्यननुमानात खद्योतश्चलतीति धीन स्यादित्यर्थः। तस्य भागैरिति। खद्योतालोकभागैरित्यर्थः । एवं तर्हि सूर्यालोकसंयोगविभागाभ्यां गतिमनुमायादित्यश्चलतीत्यपि धीः स्यादित्याह-. गभस्तिमालिन इति । अव्यापकेनापीति । खद्योततदालोकयोर्युगपत्सञ्चारितया नुद्यनोदकयोरिवाव्यापकेनापि खद्योतालोकेनापि खद्योतसंयोगविभागौन प्रतीयेते इति । तत्रापि चलतीति प्रतीतिर्न स्यादित्यर्थः । किञ्च खद्योतवत् खद्योतालोकोऽपि गच्छतीति प्रतीतिरस्ति। न च खद्योतालोकस्य स्वावयवेन संयोगविभागौ स्त इत्याहअवयवावयक्तियति। अपि च कर्मानुमितौन संयोगमात्रं विभागमात्रं वा लिङ्गम् । तस्य श्येनवत स्थाणावपि सत्वात् ! नापि

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107