Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाशः
१:४९
विषयप्रतिनियमो हि प्रमामात्रे व्यवस्थितिः । अत एव मनसो वहिःस्त्रमजनकत्वं स्मृतिजनकत्वं चेत्यर्थः । कर्मत्वमैन्द्रियकटत्ति न वेति विप्रतिपत्तावाह - कर्म प्रत्यक्षमिति । यदि कर्म न प्रत्यक्षं तदा कथं तत् प्रत्येतव्यमित्यत्राह-संयोगविभागपरम्परैवेति । तथा च तत्रैवेन्द्रियव्यापार उपक्षीण इत्यर्थः । युक्तं चैतत् । न हि संयोगविभागावजानन् कर्म प्रत्येति । रथस्य देशान्तरप्राप्तिं प्रतिसंदधानस्य रथिनो रथो मे गच्छतीति प्रतीतेः । सारथेस्तु देशान्तरमाध्यमत्याकलने स्थिरत्वेनैव प्रतीतेः । न च चलतीति प्रत्यक्षात् कर्मविषयेत्याह । यः पुनरिति । न च तस्यानुमितित्वमसिद्धम् । कर्मप्रत्यक्षत्वेऽपि पूर्वदेशविभागोत्तरदेश संयोगाभ्यां तद्र्यञ्जनीयम् । अत एव संयोगविभागौ न प्रत्यक्षी । तत्र कर्मापि न प्रत्यक्ष भूकम्पादौ । तथा चोत्तरदेश संयोगे सति कर्म नष्टमेव प्रत्यक्षं च वर्तमानविषयम् । किञ्च संयोगोऽपि ज्ञातो व्यञ्जकः, संयोगे चोत्पन्ने तत्साक्षात्कारः, तदनन्तरं च कर्मसाक्षात्कारदशायामव्यवहितमाक्कालीनमपि कर्म नास्ति | संयोगसाक्षात्कारकाल एव कर्मणो नष्टत्वात् कर्म कथं प्रत्यक्षमिति भावः ।
1
O
व्यभिचारादिति । सुखादिनेत्यर्थः । समनन्तरसंयोगव्यवहितत्वादिति । उत्तरदेश संयोगनिवर्तनीयत्वादित्यर्थः । व्यभिचारादिति । विभागेत्यनुषज्ञ्जनीयम् । उत्तरदेश संयोगव्यड्यं न कर्म किन्तु पूर्वदेशविभागव्यङ्ग्यमिति नोक्तदूषणावकाशः । विभाग साक्षात्कारस्तदुत्पत्त्यव्यवहितोत्तरक्षणे ः तत्काले च कर्मणः सत्वादिति भावः । परमाणुमात्रविवरवृत्तित्वादिति को-
:

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107