Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 31
________________ . किरणावली प्रकाशः १४७ न च तत्र मानाभावः । इन्द्रियालोकादिप्रत्यासन्नस्यावयविनो वायूपनीतस्य सुरभिद्रव्यस्याप्रत्यक्षत्वेन तिमिरस्थघटवत् साक्षात्कारकारणकिञ्चित्समवधानशून्यत्वानुमानात् । तच्च लाघवाव सामान्यरूपं न द्रव्यत्ति । ऊष्मप्रभयोः स्पर्शरूपग्रहे रूपस्पर्शग्रहापत्ते तदेकार्थसमवायाविशेषात् । रूपस्पर्शयोश्च तद्भेदः । एकस्य ग्रहेsप्यन्यस्याग्रहात् । ___ न च रूपत्वादिना जातिसंकरः । तारत्वादिवन्नानात्वात् । रूपादिप्रत्यक्षतायामेकैकोद्भवत्वस्यैव तन्त्रत्वात् । आलोक इति । . एतच्चाक्षुषप्रत्यक्षमाने द्रष्टव्यम् । अन्धकारेऽपि त्वचा द्रव्यग्रहात् । सारूप्यज्ञानं भ्रमोऽपीति व्याचष्टे-अविपरीतस्येति । अनारोपितस्येत्यर्थः । निर्विकल्पकं प्रत्यक्षमिति । ननु तत्र प्रत्यक्ष न मानमसिद्धरनभ्युपगमाच्च न व्यवहारः । तस्य सविकल्पकजन्यत्वात् । अथ गौरिति प्रत्यक्ष विशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वादनुमितिवत् । न च परोक्षत्वमुपाधिः । प्रत्यभिज्ञाने साध्याव्यापकत्वात् । नापि विशिष्टविशेषणकत्वम् । पक्षेतरत्वात् । न च प्रतिबन्धासिद्धिः । साध्यादीनां विशेषणतया विशिष्टधीमात्रे विशेषणज्ञानमात्रस्य हेतुत्वात् । न । स्मृतिवत् प्रागनुभवस्य संस्कारद्वारा जनकत्वात् । न चाव्यवहितविशेषणधीजन्यत्वं साध्यम् । प्रत्यभिज्ञाने व्यभिचारात् । अथ जागराधविशिष्टज्ञाने संस्कारोबोधकमन्यत्र दृष्ट ज्ञानमेव कल्प्यते । न च तद्विशिष्टज्ञानमेव । तत्रापि विशेषणज्ञानापेक्षायामनवस्थानात् । न संस्कारोबोधत्वेन नियतो हेतुरिति ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107