Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१४५
किरणावली प्रकाशः ध्यतीत्यर्थः। अन्ये तु । अक्षं प्रतीति विग्रहे समाससूत्राभाव इत्यत आह-तदेतदिति । अक्षपदवत् प्रत्यक्षपदे बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्पजिति पच्प्रत्ययान्तस्याक्षिशब्दस्य प्रयोगस्तथा च वासनादिप्रत्यक्षाव्याप्तिरिति शङ्का निराकर्तुमाह-अक्षशब्दस्येति। . पडित्यस्य तात्पर्यमाह-न त्विति । सांख्यानां कर्मेन्द्रियैः पञ्चभिः सममेकादशेन्द्रियाणि बौद्धानां मनोऽनङ्गीकाराव पञ्चैव तानि, तन्निरासायं षटकीर्तनमित्यर्थः । तत्रेन्द्रियलक्षणं सांख्यानां दुपयतिउत्कटोति । यत्तु लक्षणमिन्द्रियाणां तन्न पारबादावित्यत आहशरीरसंयुक्तमिति । एतच्च यद्यपि घटादौ शरीरे चातिव्याप्त, शरीरसंयुक्तत्वस्य शरीरत्तिसंयोगाश्रयत्वस्य शरीरे सत्त्वात् । तथापि शब्दव्यतिरिक्तोदभूतविशेषगुणशून्याकाशसंयुक्तमिन्द्रियलक्षणम् । तदेतदिति । प्रतिगतमक्षमित्यादि । स्मृतीति। स्मृतिरपिमनोलक्षणमिन्द्रियं प्रतिगता,संशयोऽपि चक्षुरादिकं प्रतिगतस्तज्जन्यत्वात् । आदिशब्देनात्मानुमित्यात्मस्मृतीनामप्यात्ममनोलक्षणेन्द्रियार्थसंनिकर्षजत्वात्मत्यक्षत्वप्रसङ्ग इत्यर्थः । ईश्वरप्रत्यक्षाव्याप्तिश्चेत्यपि द्रष्टव्यम् ।
न च साक्षात्कारित्वे जातो मानाभावः । चाक्षुषादिबुद्धौ साक्षात्करोमीत्यनुगतप्रत्ययात् । नापि व्यञ्जकाभावः । गोलकजस्वादेरेव तत्त्वात् । योगीश्वरबुद्धौ च धर्मिग्राहकं मानमेव तद्वयअकम् । गोत्वादाविव व्याकेऽननुगमस्यादोषत्वात् । प्रत्युत व्याकस्यानुगमे तत एवानुगतबुद्धथुपपत्तौ जातौ मानाभावः । यत्त्वग्रे एतदस्मदादीनां संयोगिनां त्वित्यादि वक्ष्यति तज्ज

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107