Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१४४
गुणनिरूपणम् भू प्राप्ताबित्यस्यानित्यण्यन्तत्वेन रूपम् । ननु संस्कारधआभ्यामित्ययुक्तम् एतज्जन्माननुभूतविषयत्वेन एतज्जन्मसंस्का. राभावात् । जन्मान्तरीयसंस्कारस्य च नियतविषये वालस्तनपानादावेव ज्ञानजनकत्वादन्यथातिप्रसङ्गादित्यत आह-यदि पूर्वेति । एवञ्च एतज्जन्मन्यननुभूतस्येत्यस्य एतज्जन्मन्यसाक्षात्कृतस्येत्यर्थः सम्पद्यते । एवमग्रेऽपि व्याख्येयम् । अत्यन्तार्थ व्या. चष्टे-आरोपतोऽपीति। ननु स्वप्नमात्रे संस्कारस्य कारणवादत्यन्ताप्रसिद्ध कथं स्वप्न इत्यत आह-संसर्गविषयश्चेति । संसृज्यमानस्य प्रत्येकमनुभवोऽस्त्येवेत्यर्थः ।
अत एवेति । संसर्गस्याननुभूतत्वेन स्मृतेरसम्भवात् । पटीयसी बहुतरविशेषावगाहिनीत्यर्थः । स्वप्नस्य प्रत्यक्षयाम्यनुभवामीत्यायनुभवादबाधकामावाच्चानुभवत्वमेवेति भावः।
सामान्यज्ञानं विना न विभागावतार इति सामान्यलक्षणं स्मारयति--यथार्थेति । चतुर्विधेत्यनेनैव विभागस्य दर्शितत्वात प्रत्यक्षेत्यादि पुनरुक्तमित्यत आह-किनामधेया इति । प्रत्यक्षादिविद्याया नेतरव्यावर्तकत्वमिति व्याचष्टे-लक्ष्यत इति । अक्षाणामप्रतीतानामेव प्रत्यायकत्वाद्वयाचष्टे-प्रतीत्य प्राप्येति । अर्थेन सहेन्द्रियमाप्त्या यज्ज्ञानं जायत इत्यर्थः ।।
नन्वेवमव्ययीभावसमासे नपुंसकलिङ्गत्वात प्रत्यक्षशब्दस्याभिधेयलिङ्गता न स्यादित्यत आह-तदेतदर्थकथनमिति । कथं तर्हि समास इत्यत आह-प्रतिगतमिति । तेन प्रादिसमासे प्राप्लापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधेयलिङ्गता सि.

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107