Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 30
________________ १४६ . गुणनिरूपणम् न्यमस्मदादीनां योगिनां प्रत्यक्षमभिप्रेत्य। . ननु प्रतिगतमक्षमिति केन सम्बन्धेन साक्षात्त्वस्य लक्षणत्वमित्यनुपपत्तावेकप्रकरणाम्नातत्वमेव सम्बन्धोऽस्तीत्याह-तत्र बु यधिकारेणेति । महतीत्यत्र महत्त्वं नोपलक्षणं किन्तु विशेषणमित्यभिप्रेत्याह-तेनेति । ननु बहिरिन्द्रियजद्रव्यप्रत्यक्षं प्रति महवोदभूतरूपवत्तयोः स्वरूपयोग्यतावच्छेदकत्वात् दण्डत्ववन्न सहकारित्वमित्यत आह-अकारणत्व इति । वस्तुतस्तादृशयोरपि विषयतया सहकारित्वादननुगतत्वेनावच्छेदकत्वादुभयरूपत्वेऽपि न विरोध इति भावः । तथापि यत्र तदुत्कर्षानुविधानं तत्र कारणत्वेऽपि बहिरिन्द्रियजद्रव्यसाक्षात्कारमात्रे तस्य कारणत्वे किं मानम् । ____ अत्राहुः । यद्विशेषो यद्विशेषप्रयोजकस्तत्सामान्यमसति बाधके तत्सामान्ये प्रयोजकमिति व्याप्तेः अनेकद्रव्यवत्त्वस्य तत्त्वे मानमाह-न च परिमाणेति । तथा च परस्पराविनाभूतयोः द्वयोरप्यन्वयव्यतिरेकाभ्यां तुल्यत्वादुभयमपि कारणमित्यर्थः । वस्तुतो महत्त्वमेव कारणं लाघवात् । अनेकद्रव्यवत्त्वात् कार्य विनापि तूलकादौ प्रचयस्योत्कृष्टमहत्त्वात प्रत्यक्षोत्कर्षदर्शनाच । दूरस्थकेशादौ राशीभूते द्रव्यान्तरानुत्पादेन महत्त्वाभावेऽप्येककेशस्य सजातीयसंयोगेनानेकद्रव्यवत्वं तद्धेतुरिति चेत् । न । समवायेन तस्य प्रयोजकतया संयोगेनातत्त्वात् । दूरस्थग्रहे तस्य सजातीयसंयोगः सहकारीति चेत् । न । महत्त्व एव तथास्तु क्लुप्त‘त्वाद्विपयस्थं च रूपमुद्भूतं सहकारीत्याह-रूपं चोद्भुतस्वभाव मिति । उदभूनत्वं च रूपवृत्तिर्जातिविशेषः ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107