Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 27
________________ किरणावली प्रकाशः १४३ तदभिघातादेव प्राणक्रियोपपत्ती तत्र प्रयत्नवदात्मसंयोगस्थाममवायिकारणत्वे प्रमाणाभावः । अत्राहः । प्राणक्रियायां प्रयत्नवदात्मसंयोगस्य नासमवायि. कारणत्वं किन्तु कारणत्वमात्रं तच्च परम्परया कारणत्वेऽप्युपपद्यते । एवञ्चात्मप्राणसंयोग इति व्याख्येयग्रन्थस्यायमर्थः । प्राणवहनाड्या सममात्मसंयोगः प्राणक्रियायां परम्पराकारणं नाडीमाणसंयोगोऽ. भिघाताख्यः प्राणक्रियायामसमवायिकारणमिति । एतेनेति। शयनं ज्ञानविशेषः । तत्पदार्थः निरिन्द्रयप्रदेशावस्थितमनःसंयोगासमवायिकारणकं ज्ञानमित्यर्थः । यद्वा । स्वप्नवहनाडीविशेपसंयुक्तमनोजन्यं ज्ञानमित्यर्थः । यानान्हिकानिति । आह्निकत्वेन दिनभवत्वेन यानर्थान् पश्यतीत्यर्थः । न च ते तथेति । न ते आह्निका इत्यर्थः । वाराणस्यामिति । वाराणस्यधिकरणकः पुरुषः पाटलिपुत्रे पश्यति, पाटलिपुत्राधिकरणोऽहम, एते च पाटलिपुत्रीयाः पदार्थाः वाराणसेया इति पश्यतीत्यर्थः । तेनातनग्रन्थसामञ्जस्यं भवति । अयमेवमाहेति । यद्यपि लिङ्गोदाहरणप्रस्तावे शब्दोदाहरणं न युक्तं तथापि वैशेषिकाणां शब्दस्यानुमानान्तर्भावात् तथोक्तम् । यद्यपि सर्वति। धातुदोषस्य सकलस्वमकारणत्वं वैद्यकादवगन्तव्यम् । ननु स्वयमनुभूनेषु प्रसिद्धेष्वित्यत्र पौनरुक्त्यम् अनुभवपसिद्धिशब्दयोरेकार्थत्वादित्यत आह-स्वयमनुभूतेषु प्राप्तेष्विति । सम्बदेष्वित्यर्थः।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107