Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१३६ ...गुणनिरूपणम्... . . न च विशेषाग्रहमात्रं. तन्नियामकम् । अगृहीतावशेषेऽप्यसरूपे भ्रमादर्शनात् । अत.. एच. सारूप्यस्यैकदेशकास्न्ये विकल्पोऽप्यपास्तः । आरोप्योपस्थापकत्वमात्रस्य प्रयोजकत्वात् । एवञ्च स्मर्यमाणारोपे सारूप्यग्रहः कारणम् । पतिः शङ्ख इत्यादौ च नयनादिसम्भिन्नपित्तपीतिमानमनुभूय शङ्ख तदारोपः । किञ्च । नात्र शखे पीतगुण आरोप्यते । किन्तु शङ्खपीतगुणावारोपविषयौ संसृष्टत्वमारोप्यम् । तथाच • संसृष्टस्वभावाभ्यां गुणगुणिभ्यां सारूप्यमारोपप्रयोजकम् । तचासम्बन्धानहरूपमत्रास्त्येवेत्याह-न च पीतिमतिक्तत्वे इति । संसृष्टत्वस्यारोपे तस्य केवलान्वयितया तत्र विशेषादर्शनादित्यर्थः ।
न चैवं प्रतीतर्धमत्वानुपपत्तिः केवलान्वयिधम्मिविषयज्ञानस्य यथार्थत्वस्य नियमादिति वाच्यम् । संसृष्टविषयत्वे तथात्वे धर्मद्वय. प्रकारत्वांशे भ्रमत्वात् ।
नन्वेवं शङ्खपीतगुणौ संसृष्टाविति धीः स्यात् । मैवम् । संसर्गस्य ससम्बन्धिकतया तन्निरूप्यत्वेनोपस्थितपदार्थेनैव तन्निरूपणातः । तथाप्यसंसर्गाग्रहस्य स्वरूपसत एवारोपहेतुत्वादाराप्यारोपविषयसा
रूप्यस्य च ज्ञातस्योपयोगात् । .... अत्राहुः । यत्र तादात्म्यारोपः तत्र सारूप्यं ज्ञातमुपयुच्यते संसर्गारोपे तु स्वरूपसदेव प्रयोजकमिति. भवत्यसंसर्गाग्रहः सारूप्यम् । यद्वा । यत्र सारूप्यमेव / दोपस्तत्रारोप्योपस्थापकतया सारूप्यमुपयुज्यते .. न . तु यत्र. पित्तादिर्दोषः । तत्रारोप्योपस्थितेरनुभवरूपायाः सम्भवात् । ननु दोपानसर्गिकक्रार्य

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107