Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 21
________________ किरणावली प्रकाशः प्रतिवन्धका न त्वागन्तुककार्यजनका इति । ततो यथार्थज्ञानं मा जनिष्टायथार्थज्ञानन्तु, कुत इत्यत आह-न च दोषा इति । स्वच्छत्वमभास्वररूपविरहः । व्यूहनं वाजीकरणम् । विष्टम्भनं गतिप्रतिबन्धः । ननु चक्षुत्रिग्राह्यत्वं पीतादौ तत्सामान्ये चास्तीति तदपि सारूप्यादागेप्यतेत्यत आह-नियमादृष्टवशादिति । यथा मण्डूकवसाअनादोषाद्वंश एवोरगभ्रमो नान्यत्रेति नियमस्तथा नियमादृष्टवशादत्राप्यारोपनियम इत्यर्थः। पारलौकिकपथदर्शनानुपायत्वात् पाखण्डदर्शनानामाह-दर्श नप्रतिरूपकेविति । तेष्वेव वेदद्धेष्वेव ।। ननु नित्यद्रव्याविषयको भ्रमः केवलान्वय्यत्यन्ताभावप्रति. योगिमात्रविपयको न वेति विमतिपत्तृभ्रमः प्रमाविषयाविषयकः भ्रमान्यज्ञानान्यत्वात् आकाशवत् । न चामयोजकत्वम् । तथाहि पुरोवर्तिनि रजते च न भ्रमत्वं तयोः सत्त्रात किन्त्वेतयो:शिष्टथे । तच्चासदेव । नेदं रजतमिति च कस्यापि न पुरोवर्तिरजते वाध्यते । अपि तुः तयोर्वैशिष्टयं वाध्यमतो भ्रमे तदुपस्थितिरेव युक्ता। न हि कारणत्वं विषयत्वम् । अतीतत्वादेरपि तत्त्वात् । किन्तु स्वकारणाधीनः स्वभावविशेषः । स चासत्यपि विरुध्यत इत्यत आह-इह विभ्रम इति। भ्रमत्वञ्च नासद्विषयत्वं किन्तु सद्विषयत्वेऽपि । विशेष्यात्तिप्रकारकत्वात् । किञ्चासदिति। नाभावः तत्मतियोगिवा प्रमासाधारणत्वात् । नाप्यत्यन्तासदखण्डम्।तगाने कारणाभावात् । इन्द्रियाणांसन्निकृष्टार्थबोधकत्वात् । तदभावे व्यायाधग्रहेऽनुमानाद्यपत्तेः । ननु सविषयकोऽयं भ्रमः ज्ञानान्यविषयको

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107