Book Title: Kinrnavali Prakash Author(s): Vardhaman Upadhyaya, Badrinath Shastri Publisher: Vardhaman Upadhyaya Badrinath Shastri View full book textPage 8
________________ १२४ ... गुणनिरूपणम्... ञ्चेति । उक्तमेव प्रत्यक्षमित्यर्थः । ननु किञ्चिदवध्यपेक्षसंयुक्तसंयोगभूयस्त्वाल्पीयस्त्वविषयापेक्षाबुद्धिजन्यत्वात परत्वापरत्वयोरावश्यकत्वाल्लोघवाच्च ताभ्यामेव परापरव्यवहारौ . स्तां किं गुणान्तरकल्पनयेत्याह-संयुक्तसंयोगेति । प्रभातर्यपीति । ननु तादृशसंयोगाश्रयत्वे यत् प्रतीयात् तत्र परापरव्यवहारो न तुं तदवधित्वेन प्रतीयमाने । प्रमातापि यदा तादृशसंयोगाश्रयत्वेन ज्ञायते न त्ववधित्वेन तदा प्रमातर्यपि वाराणसीतः परोऽहमिति व्यवहारों भवत्येव । अत एवान्यत्राप्यवधौ संयुक्तसंयोगाविशेषऽपि न परत्वाद्युत्पत्तिः । तथाच यदेव परत्वाद्युत्पत्ती नियामकं तदेव व्यवहारनिमित्तमस्तु । ___ अत्राहुः । प्रमातात्मा न शरीरमिति विभत्वात्तत्र व्यवहारानास्पदेऽपि तादृशसंयोगाश्रयत्वेन परव्यवहारापत्तिः । न च मूर्त्तत्वमपि तद्वयवहारनिमित्तमस्तु । संयोगस्य सावधित्वाभावात् । इदमस्मात संयुक्तमित्यप्रतीतेः । परत्वादेस्तु सावधित्वेन प्रतीतेः । परत्वादेरेकवृत्तितया प्रतीतेासज्यत्तिसंयोगानेदाव । संयोगभेदापरिगणनेऽपि परव्यवहाराच्च । . अन्ये तु संयुक्त संयोगाल्पीयस्त्वभूयस्त्वे नाकाशादिदेशा. पेक्षया, तेषामविशिष्टत्वादतीन्द्रियत्वाच । किन्त्वालोकादिमध्यवर्त्यपेक्षया । तथाचैकदिगवस्थितयोरेव द्वयोरेकस्य घनतरालोकवर्तिनः संयुक्तसंयोगस्य भूयस्त्वे यदपरत्वं विरलालोकमध्यवर्तिनः संयुक्तसंयोगाल्पीयस्त्वे यत् परत्वमुत्पद्यते तन्न स्यादित्याहुः ।। ... . . ननु व्यवहारेति । अज्ञातात कारणात् कार्योत्पत्तिनियमोPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 107