Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 7
________________ किरणावली प्रकाश १२३ अकारणविशेपस्य च कार्यविशेषत्वात् । अतस्तदाश्रया अंशकोऽपि तत्कारणानि संयोगमात्रस्याकारणतया संयोगिविशेषितस्प तस्य कारणत्वात् । अन्यथा संयोगेनान्यथासिद्धमिन्द्रियाद्यपि प्रत्यक्षादौ कारणं न स्यात् । द्रव्यारम्भकसंयोगविरोधित्वेन च द्रव्यमात्रस्य निमित्तकारणसाधारणतयाविवक्षितत्वाव । एल्लभ्यत इति । क्रमेण तन्तोरंशुकम्माशुविभागारम्भकसंयोगनाशतन्तुनाशाः । अंशुकर्मकाले वीरणे कर्म । ततो विभागस्ततः संयोगनाशोऽयोत्तरदेशसंयोग इत्युभाभ्यां स्वाश्रयनाशोत्तरदेशसंयोगाभ्यां तन्तुवीरणविभागो नाश्यत इत्यर्थः । परत्वनिरूपणावसर एवापरत्वनिरूपणमुपपादयति । परस्परेति। परत्वापरत्वयोरन्योन्यमाश्रयमवधिमपेक्ष्पैवोत्पत्तेः । परस्परसामग्रीनैयत्यात् । परस्परोत्पत्तित्ववव्यवहारविषयत्वज्ञापनमेव व्युत्पत्तिवैषम्यमित्यर्थः । मिलितस्यासम्भवं निराकुर्वन्नाइ-यथायथमिति । निमित्तत्वमदृष्टादिष्वतिव्याप्तं मत्वाइ-यविशिष्ट इति । लक्षणमिति । यद्यपि दिक्कनकाळकृतपरत्वापरत्वयोः शन्दमात्रसाधारण्यात परापरव्यवहारयोर्नकत्वम् अपेक्षाबुद्धिजन्याविभुटत्तिमात्रत्तिगुणत्वव्याप्यजातिमत्त्वञ्च न लक्षणं परस्परलक्षणस्य परस्परास्मिन्नव्याप्तः । तथापि शृङ्गप्राहिकया व्यक्तिविशेष निर्दिश्य एतत्तिगुणत्वव्याप्यजातिमत्त्वं लक्षणमेकैकस्य । न च तादृशजाती मानाभावः । सामग्रीवैलमण्येन कार्यवेजात्यस्यावरकत्वात् । दिक्कालकृतयोः परत्वयोरपरत्वयोश्चात्यीयस्त्वारःपेक्षावुद्धिजन्यमूर्त्तमात्रगुणत्वेनोपाधिना एकगुणत्वम् । Fe:

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 107