Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 11
________________ किरणावली प्रकाशः १२७ नित्यद्रव्येऽपि तादृशापेक्षाबुद्धया परत्वमुत्पद्यते । ज्येष्ठेऽतीते चिरं जीवतः कनिष्ठस्य नपरत्वोत्पत्तिः । तत्मागभावकालावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वादिति । विप्रकृष्टत्वेनेति । परत्वापरत्वयोरुत्पत्तिक्षणानव्यवहितप्राक्क्षणवृत्तिविप्रकृष्टत्वसन्निकृष्टत्वाभ्यां प्राप्तत्वादित्यर्थः। ___ तस्मादिति । द्रव्यनाशापेक्षाबुद्धिनाशयोरभावात् । पारिशेष्येण संयोगनाश एव परत्त्वादिनाशक इत्यर्थः । . . । यद्यपीति । एताभ्यां पर्यायशब्दाभ्यामभिधेया बुद्धिरित्यसाधारणतया व्यवच्छेदकत्वात् पर्यायाभिधानमपि लक्षणम् । यद्यपि सङ्केतमात्राधीनमहत्तयः शब्दाः सर्वत्र संभवन्ति तथापि प्रादेशिकस्य सङ्केतस्यातयात्वेऽपि सर्वजनीन ऐश्वरः सकेनः शक्नोति बुद्धि व्यवच्छेत्तुम् । तेनापि करणव्युत्पत्त्या बुद्धिज्ञानशब्दो यद्यपि मनसि पर्त्तते तथापि भावव्युत्पत्त्यात्र लक्षणम् । ननु बुद्धिज्ञानशब्दौ चैत्रादिपदवत् यत्र सङ्लेत्येते तत्रातिव्याप्तिः । द्वादशेऽह्नि पिता नाम कुर्यादिति सामान्येन रूपेण तस्यापीश्वरसतविषयत्वादिति चेत् । बुद्धिज्ञानशब्दद्वयवाच्यत्वस्य विवक्षितत्वात् । द्वादशेऽह्नि पिता नाम कुर्यादित्यत्र विधेयगतसंख्यात्वेनैकत्वस्य विवक्षितत्वे नामदयस्यैका तात्पर्यागोचरत्वात । __ यद्वा । पर्यायशब्दाभिधानेन बुद्धिरिति लक्ष्यनिर्देशः । ज्ञानपदस्य स्वप्रत्तिज्ञानत्वनिपित्तज्ञानत्वजातो तात्पर्य तेन ज्ञानत्वं लक्षणम् । तत्सिद्धिश्चानुगतबुद्धेराश्रयासिद्धिं निवारयति । .. .. तस्मिन् सतीति । न.च ज्ञानग्रहणसामग्यास्तद्ग्रहणोत्तर

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107