Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
द्वितीयपादश्च समस्तः पुनरुच्चारितः । नतानां प्रणतानां पीला ब्याधयः डो लो वा इति लत्वन्ताः । अस्यतीति नतपीलासनः । तस्य सम्बोधनं हे नतपीलासन । न विद्यते शोको यस्यासावशोक: तस्य सम्बोधनं हे अशोक । शोभनं मनोविज्ञानं यस्य सः सुमनाः तस्य सम्बोधनं हे सुमनः । अव रक्ष अथवा वा समुच्चये दृष्टः । हे ऋषभ आदि तीर्थकर । आसितः स्थितः सन् । भामण्डलं प्रभामण्डलं; आसनं सिंहासनम्, अशोकः अशोकवृक्षः, सुमनस: पुष्पाणि तेषां वर्ष सुमनोवर्षे पुष्पवृष्टिरित्यर्थः, तेषां द्वन्द्वः तैर्भासितः शोभितः भामण्डलासनाशोकसुमनोवर्षभासितःसन् । किमुक्तं भवति-हे ऋषभ अव इत्यादि अथवा हे भट्टारक यदा त्वं स्थित: तदा एवंविधः सन् स्थितगतश्च त्वं यदा तदा एवंप्रकारै गातः । वश्यमाणेन श्लोकेन सह सम्बन्धः ॥ ५ ॥
गुप्तक्रियो मुरजबन्धः। दिव्यैर्ध्वनिसितछत्रचामरैर्दुन्दुभिस्वनैः । दिव्यैर्विनिर्मितस्तोत्रश्रमदर्दुरिभिर्जनैः ॥ ६ ॥
दिव्यैरिति-क्रिया पुनः तृतीयपादे गुप्ता दिव्यैरित्यत्र । अथवा मुरजबन्ध एवं दृष्टव्यः तद्यथा-चतुरोपि पादानधोधो व्यवस्थाप्य प्रथमपादत्य प्रथमाक्षरेण तृतीयपादस्य द्वितीयाक्षरं, तृतीयपादस्य प्रथमाक्षरं प्रथमपादस्य द्वितीयाक्षरेण सह गृहीत्वा एवं नेतव्य यावत्परिसमातिः । पुनर्दितीयपादस्य प्रथमाक्षरं चतुर्थपादस्य द्वितीयाक्षरेण, चतुर्थपादस्य प्रथमाक्षरेण सह द्वितीयपादस्य द्वितीयाक्षरं गृहीत्वा पुनरनेन विधानेन तावन्नेतव्यं यावत्परिसमातिभवति । ततो मुरजबन्धः । स्थात् ।
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 132