Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनशतक | चत्वारोऽपि पादाः साध्याः । अनेन न्यायेन अर्द्धः भ्रमो भवति । प्रथमा यान्यक्षराणि तेषु पश्चिमार्द्धाक्षराणि सर्वाणि प्रविशन्ति । एकस्मिन्नपि समानाक्षरे बहूनामपि समानाक्षराणां प्रवेशो भवति । अतोगूढपश्चाद्धोऽप्ययं भवति । एवमेव जातीयाः श्लोका मृग्याः | Acharya Shri Kailassagarsuri Gyanmandir धिया बुद्ध्या । ये यदोरूपं । श्रितया आश्रितया सेव्यया इत्यर्थः । इता, विनष्टा अत्तिः मनःपीड़ा यस्या: सेयमितातिः तया । यान् यदः शसंतस्य प्रयोगः । उपायान् उपपूर्वस्य अयगतौ अस्याजंतस्य रूपं उपगम्यानित्यर्थः । चराः प्रधानाः इन्द्रादयः नताः प्रणताः । ये च वक्षमाणन च शब्देन सहसंबन्धः। न विद्यते पापं येषां ते अपापाः शुद्धाः कर्मरहिता इत्यर्थः । यात पारं यैस्ते यातपारा : अधिगत सर्वपदार्थाः इत्यर्थः ये च श्रीलक्ष्मीस्तया आयातान् अतन्वत तनु विस्तारे इत्यस्यधोङतस्य रूपम् । यथा द्रव्येण राजानः अभितान् विस्तारयति । उत्तरत्र क्रियापदं तिष्ठति तेन सह सम्बन्धः ॥३॥ अर्जुनमः । आसते सततं ये च सति पूर्वक्षयालये । ते पुण्यदा रतायातं सर्वदा माभिरक्षत ॥ ४ ॥ आसत इति - आस्ते आस उपवेशने इत्यस्य धोः लङन्तस्य प्रयोगः । सततं सर्वकाल । ये च च शब्दः समुच्चये. यदः प्रयोगान् जसन्तान् सुमुचिनोति पूर्वप्रक्रान्तान् । सति शोभने सतः इवन्तस्य रूपम् । न विद्यते क्षयः विनाशो यस्यासावक्षयः । आलयः अवस्थानम् । अक्षयश्चासावालयश्च अक्षयालयः पुरुश्चासावक्षयालय पुर्वक्षयालयः तस्मिन् पुर्वक्षया । ते तदः प्रयोगोऽयम्, यदः प्रयोगानपेक्षते । J For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 132