________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिनशतक |
चत्वारोऽपि पादाः साध्याः । अनेन न्यायेन अर्द्धः भ्रमो भवति । प्रथमा यान्यक्षराणि तेषु पश्चिमार्द्धाक्षराणि सर्वाणि प्रविशन्ति । एकस्मिन्नपि समानाक्षरे बहूनामपि समानाक्षराणां प्रवेशो भवति । अतोगूढपश्चाद्धोऽप्ययं भवति । एवमेव जातीयाः श्लोका मृग्याः |
Acharya Shri Kailassagarsuri Gyanmandir
धिया बुद्ध्या । ये यदोरूपं । श्रितया आश्रितया सेव्यया इत्यर्थः । इता, विनष्टा अत्तिः मनःपीड़ा यस्या: सेयमितातिः तया । यान् यदः शसंतस्य प्रयोगः । उपायान् उपपूर्वस्य अयगतौ अस्याजंतस्य रूपं उपगम्यानित्यर्थः । चराः प्रधानाः इन्द्रादयः नताः प्रणताः । ये च वक्षमाणन च शब्देन सहसंबन्धः। न विद्यते पापं येषां ते अपापाः शुद्धाः कर्मरहिता इत्यर्थः । यात पारं यैस्ते यातपारा : अधिगत सर्वपदार्थाः इत्यर्थः ये च श्रीलक्ष्मीस्तया आयातान् अतन्वत तनु विस्तारे इत्यस्यधोङतस्य रूपम् । यथा द्रव्येण राजानः अभितान् विस्तारयति । उत्तरत्र क्रियापदं तिष्ठति तेन सह सम्बन्धः ॥३॥
अर्जुनमः ।
आसते सततं ये च सति पूर्वक्षयालये । ते पुण्यदा रतायातं सर्वदा माभिरक्षत ॥ ४ ॥
आसत इति - आस्ते आस उपवेशने इत्यस्य धोः लङन्तस्य प्रयोगः । सततं सर्वकाल । ये च च शब्दः समुच्चये. यदः प्रयोगान् जसन्तान् सुमुचिनोति पूर्वप्रक्रान्तान् । सति शोभने सतः इवन्तस्य रूपम् । न विद्यते क्षयः विनाशो यस्यासावक्षयः । आलयः अवस्थानम् । अक्षयश्चासावालयश्च अक्षयालयः पुरुश्चासावक्षयालय पुर्वक्षयालयः तस्मिन् पुर्वक्षया । ते तदः प्रयोगोऽयम्, यदः प्रयोगानपेक्षते ।
J
For Private And Personal Use Only