________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला |
पुण्यं ददते इति पुण्यदाः । रतेनायातः रतायातः अतस्तम् । रागेणागतं भक्त्यागतमित्यर्थः । सर्वदा सर्वकालम् । मा अस्मदः इवन्तस्य प्रयोगः । अभिरक्षते क्रियापदम् । अभिपूर्वस्य 'रक्ष पालने' इत्यस्य धोः लोडन्तस्य प्रयोगः । ते इति अभिरक्षत इति च यदो रूपेण जसन्तेन सह प्रत्येकमभिसम्बध्यते । किमुक्तं भवति - वराः यान् उपायान् नताः प्रणताः धिया, किं विशिष्टया श्रितया, पुनरपि इतायो । किमुक्तं भवति - प्रेक्षापूर्वकारिभि: ये स्तुताः ते मा रतायातं अभिरक्षत, ये च अपापा ये च यातपारा: ये च श्रिया आयातान् प्रणतान् अतन्वत विस्तारयन्तिस्म ये च सति पुर्वक्षयालये सिद्धत्व पर्याये सततं आसते ये च पुण्यदा: ते यूयं मा सर्वदा रतेन भक्यागतं अभिरक्षत पालयत इत्युक्तं भवति ॥ ४ ॥
जिस भगवानको इन्द्रादिक देव अपनी पूज्य और निर्मल बुद्धिसे नमस्कार करते हैं। जो जिनन्द्रदेव ज्ञानावरणादि अष्ट कर्मरहित शुद्ध हैं, सर्वज्ञ हैं, तथा अपने आश्रित भव्यजीवों को मोक्षरूपी लक्ष्मीसे सुशोभित करते हैं, और अत्यन्त उत्कृष्ट अविनाशी सिद्धत्व पर्याय में निरन्तर विराजमान रहते हैं तथा पुण्यको देनेवाले हैं । ऐसे श्रीजिनेन्द्रदेव मुझ भक्तकी सदा रक्षा करो ॥ ३ ॥ ४ ॥
साधिकपादाभ्यासयमकः ।
नतपीलासनाशोक सुमनोवर्षभासितः । भामंडलासनाशोकसुमनोवर्षभासितः ॥ ५ ॥
नतपीति --- प्रथमपादस्य पश्चाक्षराणि अभ्यस्तानि पुनरुच्चारितानि
For Private And Personal Use Only