________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वाद ग्रंथमाला।
स्वमलगंभीरम् । न मिताः अमिताचते गुणाश्चते अमितगुणाः जिनस्यामितगुणाः जिनामितगुणाः जिनामितगुणा एव अर्णवः समुद्रः अथवा जिन एव अमितगुणार्णवः जिनामितगुणार्णवस्तं । पूतः पवित्रः श्रीमान् श्रीयुक्तः जगतां सारा जगत्सारः पूतश्च श्रीमांश्च जगत्सारश्च पूतश्रीमज्जगत्सारः तं । जनाः लोकाः।यात इति क्रियापदं । या गतावित्यस्य धोः लोडतस्य प्रयोगः । क्षणादचिरादचिरेणेत्यर्थः । शिवं शोभनं शिवरूपमित्यर्थः । किमुक्तं भवति–हे जनाः जिनागितगुणार्णवं स्नात येन क्षणाच्छिवं यात इति । शेषाणि पदानि जिनामितगुणार्णवस्य विशेषणानि ॥२॥
भो भव्यजन हो, अत्यन्त निर्मल, गंभीर, पवित्र, अत्यन्त सुशोभित और संसारके सारभूत श्रीजिनेन्द्रदेवके अनन्त गुणरूपी समुद्र में स्नान करो अर्थात् उनके गुणोंमें तल्लीन होजाओ क्योंकि भगवानके गुणरूपी समुद्रमें स्नान करनेसे तुमको शीघ्र ही मोक्षकी प्राप्ति होगी ॥ २ ॥
अर्द्धभूमगूढपश्चार्द्धः।
धिया ये श्रितयेता| यानुपायान्वरानतः । येपापा यातपारा ये श्रियायातानतन्वत ॥ ३ ॥
- धियेति अर्द्धभूमगूढपश्चाद्धः । कोस्यार्थः चतुरोऽपिपादानधोऽधो. विन्यस्य चतुर्णी पादानां चत्वारि प्रथमाक्षराणि अन्त्याक्षराणि चत्वारिगृहीत्वा प्रथमः पादो भवति । पुनरपि तेषां द्वितीयाक्षराणि चत्वार्यन्तसमीपाक्षराणि च चत्वारि गृहीत्वा द्वितीयः पादो भवति । एवं
For Private And Personal Use Only