________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
प्रतिपूर्वस्य पदेः क्त्वांतस्य प्रयोगः । आगसां पापानां जये जयहेतोनिमित्ते इवियम् । काम इष्टं कमनीयं इच्छा वा स्थानं निवासः कामं च तत्स्थानं च कामस्य वा स्थानं कामस्थानं तस्य प्रदान कामस्थानप्रदानं अथवा कामश्च स्थानं च कामस्थाने तयोः प्रदानं कामस्थानप्रदान तस्य ईशः कामस्थानप्रदानेशः तं कामस्थानप्रदानेशं, प्रथमपादेन सह सम्बन्धः । स्तुतिरेव विद्या स्तुतिविद्या तां प्रसाधये अहमिति सम्बन्धः । अथवा कामस्थानप्रदानेशमिति स्तुतिविद्याया विशेषणम्, कामस्थान प्रदानस्य ईष्ट इति कामस्थान प्रदानेट अतस्तां । किमुक्तं भवति-श्रीमजिनपदाभ्याशं प्रतिपद्य स्तुतिविद्यां प्रसाधयेऽहं । किं विशिष्टां स्तुतिविद्या कथंभूतं वा जिनपदाभ्याशं कामस्थानप्रदानेशं । किमर्थ आगसां जये जयनिमित्तं । प्रसाधये इति च प्रपूर्वस्य साधसंसिद्धावित्यस्य श्रोः णिजलडंतस्य प्रयोगः ॥ १ ॥
समस्त मनोरोंको पूर्ण करनेवाले श्रीजिनेन्द्रदेवके चरण कमलोंके निकट जाकर अपने पापोंका नाश करनेकेलिये मैं यह श्रीजिनेन्द्रदेवका स्तोत्र प्रारंभ करता हूं ॥१॥
मुरजबन्धः। स्नात स्वमलगंभीरं जिनामितगुणार्णवम् । पूतश्रीमज्जगत्सारं जना यात क्षणाच्छिवं ॥२॥
स्नात स्वमलेति । मुरजबन्धःपूर्ववद्दृष्टव्यः । स्नात इति क्रियापदं ष्णा शौच इत्यस्य धोः लोडतस्य रूपं । सुष्टु न विद्यते मलं यस्य स स्वमल: गंभीरः अगाधः खमलश्चासौ गंभीरश्च स्वमलगंभीरः अतस्तं
For Private And Personal Use Only