________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रंथमाला।
आश्रयाज्जायते लोके निःप्रभोऽपि महाद्युतिः। गिरिराजं श्रितःकाको धत्ते हि कनकच्छविः ॥ ७ ॥
वृषभादिचतुर्विंशतितीर्थकराणां तीर्थकरनामकोदयवायुसमूहोद्वार्ततसौधर्मेन्द्रादिसुरवरसेनावारिधिभाक्तिकजनसमुपनीतेज्याविधानार्हाणां घाति कर्मक्षयानन्तरसमुद्भूतविषयीकृतानेकजीवादिद्रव्यत्रिकालगोचरानन्तपर्यायकेवलज्ञानानां स्तुतिरियं जिनशतकनामेति । तस्याः समस्तगुणगणोपेतायाः सर्वालंकारभूषितायाः घनकठिनघातकर्मेन्धनदहनसमर्थायाः तार्किकचूड़ामणिश्रीमत्समन्तभद्राचार्यविरीचतायाः संक्षेपभूतविवरण क्रियते ।
मुरजबन्धः ।
श्रीमज्जिनपदाभ्याशं प्रतिपद्यागसां जये । कामस्थानप्रदानेशं स्तुतिविद्यां प्रसाधये ॥१॥
श्रीमजिनेति । पूर्वार्द्धमेकपंक्त्याकारण व्यवस्थाप्य पश्चार्द्धमप्येक पंक्त्याकारेण तस्याधः कृत्वा मुरजबन्धो निरूपयितव्यः । प्रथमपंक्तेः प्रथमाक्षरं द्वितीयपंक्ते द्वितीयाक्षरेण सह, द्वितीयपंक्तेः प्रथमाक्षरं प्रथमपंक्ते द्वितीयाक्षरेण सह एवमुभयपंक्त्यक्षरेषु सर्वेषु संयोज्यम् । एवं सर्वेऽपि मुरजवन्धा दृष्टव्याः ।
अस्य विवरणं क्रियते । श्रीविद्यते यस्य स श्रीमान् जिनत्य पदाभ्याशः पदसमीपं जिनपदाभ्याशः श्रीमांश्चासौ जिनपदाभ्याशश्च श्रीमजिनपदाभ्याशस्तं श्रीमजिनपदाभ्याशं । प्रतिपद्य संप्राप्य प्रतिपद्येति
For Private And Personal Use Only