________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री परमात्मने नमः ।
स्याद्वादग्रन्थमाला । श्रीमद्भगवत्समन्तभद्राचार्यविरचितम्
जिनशतकं सटीकम् ।
****☺☺"XXX".00....
Acharya Shri Kailassagarsuri Gyanmandir
टीकाकारस्य मंगलाचरणम् ।
नमो वृषभनाथाय लोकालोकावलोकिने । ' मोहपंकविशोषाय भासिने जिनभानवे ॥ १ ॥ समन्तभद्रं सद्बोधं स्तुवे वरगुणालयम् । निर्मलं यद्यशष्कान्तं बसूत्र भुवनत्रयम् ॥ २ ॥ यस्य च सद्गुणाधारा कृतिरेषा सुपद्मिनी । जिनशतकनामेति योगिनामपि दुष्करा ॥ ३ ॥ तस्याः प्रबोधकः कश्चिन्नास्तीति विदुषां मतिः। यावत्तावद्वभूवैकों नरसिंहो विभाकरः ॥ ४ ॥ दुर्गमं दुर्गमं काव्यं श्रूयते महतां वचः । नरसिंहं पुनः प्राप्य सुगमं सुगमं भवेत् ॥ ५ ॥ स्तुतिविद्यां समाश्रित्य कस्य न क्रमते मतिः । तद्वृत्तिं येनं जाड्येतु कुरुते वसुनन्यपि ॥ ६ ॥
१ महाबोधं । २ “ तद्वृत्तिं यो न बोध्येत कुरुते वसुनन्दूयपि " इति
पुस्तकान्तर पाठः ।
For Private And Personal Use Only