Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala

View full book text
Previous | Next

Page 404
________________ ધર્મતીર્થ સ્થાપના - ઉદેશ અને વિધિ उ७७ तथावंतरगाहवणाओ तोरणमाईण होइ विण्णासो। चितितरुसीहासणछत्तचक्कधयमाइयाणं च ।।१६।। व्याख्या-व्यन्तरा एव व्यन्तरकास्तदाह्वानात्संशब्दनात्। 'तोरणमाईण त्ति' इह मकारः प्राकृतशैलीप्रभवः । तेन तोरणादीनां द्वारावयवविशेषप्रभृतीनाम्। आदिशब्दात् पीठदेवच्छन्दकपुष्करिण्यादिपरिग्रहः। भवति जायते। विन्यासो रचना। तथा चैत्यतरुसिंहासनच्छत्रचक्रध्वजादीनां च। तत्र चैत्यतरुरशोकवृक्षः । अथवा चैत्यानि जिनप्रतिबिम्बानि, तरुरशोकवृक्षः, सिंहासनं सिंहाकृतियुक्तविष्टरं, छत्राण्यातपत्रत्रयं, चक्रं धर्मचक्रं, ध्वजाः सिंहध्वजचक्रध्वजमहेन्द्रध्वजगोपुरादिध्वजाश्च। आदिशब्दात्पद्मचामरपरिग्रहः । एतानि हि व्यन्तराः समवसरणे विदधति। यदाह- "चेइदुमपीठछंदगआसणछत्तं च चामराओ य। जं चन्नं करणिज्जं करंति तं वाणमंतरिय त्ति।।१।।" [आवश्यक-नियुक्ति-५५३ तथा बृहत्कल्प-११८०] इति गाथार्थः ।।१६।। तथाभुवणगुरुणो य ठवणा सयलजगपियामहस्स तो सम्म। उक्किट्ठवण्णगोवरि समवसरणबिंबरूवस्स ।।१७।। व्याख्या-भुवनगुरोश्च त्रिभुवननायकस्य पुनः स्थापनार्हतः स्थापनान्यासः। कर्तव्य इति शेषः। किंभूतस्य? लोके पिता पूज्यः पितामहस्तु पूज्यतरः पितुरपि पूज्यत्वात्। ततः सकलजगतः समस्तभुवनजनस्य पितामह इव पितामहः सकलजगत्पितामहः । अथवा सकलजगतो धर्मः पिता, पालनाभियुक्तत्वात्। तस्यापि भगवान् पिता, भगवत्प्रभवत्वाद्धर्मस्येति पितुः पिता पितामहः। सकलजगतः पितामह इति विग्रहः। अतस्तस्य। 'तो त्ति' ततश्चैत्यतरुसिंहासनादिन्यासानन्तरम्। सम्यगवैपरीत्येन। क्व स्थापनाकार्येत्याह-उत्कृष्टवर्णकस्य प्रधानचन्दनस्योपरिउपरिष्टादुत्कृष्टकर्णकोपरि। किंभूतस्य भुवनगुरोः? समवसरणे जिनधर्मदेशनाभूमौ यानि देवतानिर्मितानि तस्यैव बिम्बानि प्रतिकृतयस्तेषामिव रूपं स्वभावो यस्य स समवसरणबिम्बरूपोऽतस्तस्य चतुर्मुखस्य विशिष्टरूपस्यैवेति गाथार्थः ।।१७।। तथाएयस्स पुव्वदक्खिणभागेणं मग्गओ गणधरस्स। मुणीवसभाणं वेमाणिणीण तह साहुणीणं च ||१८|| व्याख्या-एतस्य भुवनगुरोः पूर्वदक्षिणाया आग्नेयदिशो भाग एकदेशः पूर्वदक्षिणदिग्भागस्तेन करणभूतेन हेतुभूतेन वा। मार्गतः पृष्ठतो गणधरस्य गणनायकस्य। मुनिवृषभाणां सातिशयादियति पुङ्गवानाम्। तथा विमानिकदेवास्तेषामेता वैमानिन्योऽतस्तासां वैमानिनीनां देवीनाम्। तथेति समुच्चयार्थः । तेन स्थापना कार्येति सम्बध्यते। साध्वीनां तपस्विनीनाम्। चशब्दः समुच्चयार्थ इति गाथार्थः ।।१८।। तथाइय अवरदक्खिणेणं देवीणं ठावणा मुणेयव्वा । भुवणवइवाणमंतरजोइससंबंधणीण ति।।१९।। व्याख्या-इति एवमेव यथा मुनिवृषभादित्रयस्यासंकीर्णतया स्थापना कृता एवं भवनपत्यादिदेवीत्रयस्यापि सा कार्येत्यर्थः । अपरदक्षिणेनापरदक्षिणस्यां दिशि। सप्तम्यर्थो ह्ययमेनप्रत्ययः । देवीनां सुरवधूनाम्। स्थापना न्यासः ।'मुणेयव्वत्ति' ज्ञातव्या कर्तव्यतयेति शेषः । भवनपतयो देवालयविशेषनाथा असुरादयः, 'वाणमंतर त्ति' वनानामुद्यानानामन्तराणि कुहराणि विशेषा वा वनान्तराणि तेष भवा मकारवर्णागमात वानमन्तरा व्यन्तराः, ज्योतिषि ज्योतिश्चक्रे भवा ज्योतिषा ज्योतीषं वा ज्योतिष्कदेवाः । एतेषां द्वन्द्वोऽतस्तेषां सम्बन्धिन्यः सत्का यास्तास्तथा तासाम्। इतिशब्दो द्वितीयपर्षदः समाप्तिप्रदर्शनार्थः । इति गाथार्थः ।।१९।। तथाभवणवइवाणमंतरजोइसियाणं व एत्थ देवाणं । अवरुत्तरेणं णवरं निद्दिट्ठा समयकेऊहिं ।।२०।। व्याख्या-भवनपतिवानमन्तरा उक्तनिर्वचनाः। 'जोइसिय त्ति ज्योतिषि ज्योतिश्चक्रे जाता ज्योतिषिजाः, ज्योतिषि वा भवा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508