Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala

View full book text
Previous | Next

Page 502
________________ પરિશિષ્ટ : ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ + यदा निवर्त्यते पापो, दण्डनीत्या महात्मभिः । तदा धर्मो न चलते, सद्भूतः शाश्वतः परः ।। २७ ।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय ६५) → राजदंडभयाल्लोकः, स्वस्वधर्मपरो भवेत् । यो हि स्वधर्मनिरतः, स तेजस्वी भवेदिह ।। २३ ।। (शुक्रनीति, अध्याय- १) → यत्काले ह्युचितं कर्तुं, तत्कार्यं द्रागशंकितम् ।।२८६ ।। काले वृष्टिः सुपोषाय, ह्यन्यथा सुविनाशिनी । कार्यस्थाना सर्वाणि, यामिकैरभितोऽनिशम् ।।२८७ ।। नयवान्नीतिगतिवित्सिद्धशस्त्रादिकैर्वरैः । चतुर्भिः पञ्चभिर्वापि षड्भिर्वा गोपयेत्सदा ।। २८८ ।। (शुक्रनीति, अध्याय- १) : આર્ય નીતિશાસ્ત્ર પ્રમાણે રાજાએ રાજ્યમાં ઠેરઠેર ફેલાવવા યોગ્ય આજ્ઞાઓ : शासनं त्वीदृशं कार्यं, राज्ञा नित्यं प्रजासु च ।। २९३ ।। दासे भृत्येऽथ भार्यायां पुत्रे शिष्येऽपि वा क्वचित् । वाग्दण्डपरुषन्नैव, कार्यं मद्देशसंस्थितैः । । २९४ ।। ... मातॄणां पितॄणां चैव, पूज्यानां विदुषामपि ।।२९८ ।। नावमानं नोपहासं कुर्युः सद्वृत्तशालिनाम् । .... वापुकुपारामसीमा-धर्मशालासुरालयान् ।। ३०० ।। मार्गान्नैव प्रबाधेयुर्हीनांगविकलांगकान् । ... ।। ३०१ । । ... मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च । ... ।।३०८ ।। ... गुणसाधनसंक्षा, भवन्तु निखिला जनाः । ... । । ३१० । । ... लिखित्वा शासनं राजा, धारयेत चतुष्पथे । सदा चोद्यतदण्डः स्यादसाधुषु च शत्रुषु ।।३१३ ।। प्रजानां पालनं कार्यं, नीतिपूर्वं नृपेण हि ।। ३१४ ।। (शुक्रनीति, अध्याय- १) न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दंड इत्याचार्याः । नेति कौटिल्यः । तीक्ष्णदंडो हि भूतानामुद्वेजनीयः । मृदुदंडः परिभूयते । यथार्हदंड: पूज्यः । सुविज्ञातप्रणीतो हि दंड: प्रजाः धर्मार्थकामैर्योजयति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद्वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् । अप्रणीतो हि मात्स्यन्यायमुद्भावयति । बलीयानबलं हि ग्रसते दंडधराभावे । तेन गुप्तः प्रभवतीति । चतुर्वर्णाश्रमो लोको, राज्ञा दंडेन पालितः । स्वधर्मकर्माभिरतो, वर्तते स्वेषु वर्त्मसु ।।१।। (कौटिलीय अर्थशास्त्र, अधिकरण-१, अध्याय- ४) धर्मेण राज्यं विंदेत, धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य, न जहाति न हीयते । । ३१ । । अप्युन्मत्तात्प्रलपतो, बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव कांचनम् ।। ३२ ।। सुव्याहतानि सूक्तानि, सुकृतानि ततस्ततः । संचिन्वन् धीर आसीत, शिलाहारी शिलं यथा ।। ३३ ।। ૪૬૫ (विदुरनीति, अध्याय- २) चक्षुषा मनसा वाचा, कर्मणा च चतुर्विधम् । प्रसादयति यो लोकं, तं लोकोऽनुप्रसीदति ।। २५ ।। यस्मात्त्रस्यंति भूतानि, मृगव्याधान्मृगा इव । सागरान्तामपि महीं, लब्ध्वा स परिहीयते ।। २६ । । पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा । वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ।। २७ ।। धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसंपूर्णा, वर्धते भूतिवर्धिनी ।। २८ ।। अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ।। २९ ।। (विदुरनीति, अध्याय- २) Jain Education International +4000044 For Personal & Private Use Only +500074. www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508