Book Title: Dharmtirth Part 02
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala

View full book text
Previous | Next

Page 501
________________ ४७४ પરિશિષ્ટ : ધર્મતીર્થ સ્થાપના - ઉદેશ અને વિધિ ગુણધારી વ્રતધીર; કત્તિયાવણ સમ એહવા, આચારય ગુણ વઘ તે આરાધ્ય આરાધ્યા, જિન વલિ मनिंघ. ७४ (पं०५२मेष्टि गीत) शत्रून् जय प्रजा रक्ष, यजस्व क्रतुभिर्नृप । युध्यस्व समरे वीरो, भूत्वा कौरवनन्दन ।।९।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-८९) + धर्मवृत्तं हि राजानं, प्रेत्य चेह च भारत । देवर्षिपितृगन्धर्वाः, कीर्तयन्ति महौजसः ।।५८।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-९१) + धर्ममेवानुवर्तस्व, न धर्माद् विद्यते परम् । धर्मे स्थिता हि राजानो, जयन्ति पृथिवीमिमाम् ।।६।। अर्थसिद्धेः परं धर्म, मन्यते यो महीपतिः । वृद्ध्यां च कुरुते बुद्धि, स धर्मेण विराजते ।।७।। अधर्मदर्शी यो राजा, बलादेव प्रवर्तते । क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ।।८।। ... न पूर्णोऽस्मीति मन्येत, धर्मतः कामतोऽर्थतः । बुद्धितो मित्रतश्चापि, सततं वसुधाधिपः ।।१२।। एतेष्वेव हि सर्वेषु, लोकयात्रा प्रतिष्ठिता । एतानि शृण्वल्लभते, यश: कीर्ति श्रियं प्रजाः ।।१३।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-९२) मित्रता सर्वभूतेषु, दानमध्ययनं तपः । ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ।।१५।। असतां प्रतिषेधश्च, सतां च परिपालनम् । एष राज्ञां परो धर्मः, समरे चापलायनम् ।।१६।। यस्मिन्क्षमा च क्रोधश्च, दानादाने भयाभये । निग्रहानुग्रहौ चोभौ, स वै धर्मविदुच्यते ।।१७।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-१४) + स्वेषु धर्मेष्ववस्थाप्य, प्रजाः सर्वा महीपतिः । धर्मेण सर्वकृत्यानि, शमनिष्ठानि कारयेत् ।।१९।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-६०) + केन वृत्तेन वृत्तज्ञ, वर्तमानो महीपतिः । सुखेनार्थान् सुखोदर्कानिह च प्रेत्य चाप्नुयात् ।।१।। अयं गुणानां षट्त्रिंशत् षट्त्रिंशद्गुणसंयुतः । यान् गुणांस्तु गुणोपेतः, कुर्वन् गुणमवाप्नुयात् ।।२।। चरेद् धर्मानकटुको मुञ्चेत् स्नेहं न चास्तिकः । अनुशंसश्चरेदर्थं, चरेत् काममनुद्धतः ।।३।। प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः । दाता नापात्रवर्षी स्यात्, प्रगल्भः स्यादनिष्ठुरः ।।४।। संदधीत न चानायैर्विगृह्णीयान्न बन्धुभिः । नाभक्तं चारयेच्चारं कुर्यात् कार्यमपीडया ।।५।। अर्थं ब्रूयान्न चासत्सु, गुणान् ब्रूयान्न चात्मनः । आदद्यान्न च साधुभ्यो, नासत्पुरुषमाश्रयेत् ।।६।। नापरीक्ष्य नयेद् दण्डं, न च मन्त्रं प्रकाशयेत् । विसृजेन च लुब्धेभ्यो, विश्वसेनापकारिषु ।।७।। अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः । स्त्रियः सेवेत नात्यर्थं, मृष्टं भुञ्जीत नाहितम् ।।८।। अस्तब्धः पूजयेन्मान्यान्, गुरून् सेवेदमायया । अर्चेद् देवानदम्भेन, श्रियमिच्छेदकुत्सिताम् ।।९।। सेवेत प्रणयं हित्वा, दक्षः स्यान त्वकालवित् । सान्त्वयेन च मोक्षाय, अनुगृह्णन्न चाक्षिपेत् ।।१०।। प्रहरेन्न त्वविज्ञाय, हत्वा शत्रून् न शोचयेत् । क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ।।११।। एवं चरस्व राज्यस्थो, यदि श्रेय इहेच्छसि । अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ।।१२।। इति सर्वान् गुणानेतान्, यथोक्तान् योऽनुवर्तते । अनुभूयेह भद्राणि, प्रेत्य स्वर्गे महीयते ।।१३।। इदं वचः शान्तनवस्य शुश्रुवान्, युधिष्ठिरः पाण्डवमुख्यसंवृतः । तदा ववन्दे च पितामहं नृपो, यथोक्तमेतच्च चकार बुद्धिमान् ।।१४।। (श्री वेदव्यास विरचित महाभारत, शान्तिपर्व, अध्याय-७०) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508