________________
ધર્મતીર્થ સ્થાપના - ઉદેશ અને વિધિ
उ७७
तथावंतरगाहवणाओ तोरणमाईण होइ विण्णासो। चितितरुसीहासणछत्तचक्कधयमाइयाणं च ।।१६।। व्याख्या-व्यन्तरा एव व्यन्तरकास्तदाह्वानात्संशब्दनात्। 'तोरणमाईण त्ति' इह मकारः प्राकृतशैलीप्रभवः । तेन तोरणादीनां द्वारावयवविशेषप्रभृतीनाम्। आदिशब्दात् पीठदेवच्छन्दकपुष्करिण्यादिपरिग्रहः। भवति जायते। विन्यासो रचना। तथा
चैत्यतरुसिंहासनच्छत्रचक्रध्वजादीनां च। तत्र चैत्यतरुरशोकवृक्षः । अथवा चैत्यानि जिनप्रतिबिम्बानि, तरुरशोकवृक्षः, सिंहासनं सिंहाकृतियुक्तविष्टरं, छत्राण्यातपत्रत्रयं, चक्रं धर्मचक्रं, ध्वजाः सिंहध्वजचक्रध्वजमहेन्द्रध्वजगोपुरादिध्वजाश्च। आदिशब्दात्पद्मचामरपरिग्रहः । एतानि हि व्यन्तराः समवसरणे विदधति। यदाह- "चेइदुमपीठछंदगआसणछत्तं च चामराओ य। जं चन्नं करणिज्जं करंति तं वाणमंतरिय त्ति।।१।।" [आवश्यक-नियुक्ति-५५३ तथा बृहत्कल्प-११८०] इति गाथार्थः ।।१६।। तथाभुवणगुरुणो य ठवणा सयलजगपियामहस्स तो सम्म। उक्किट्ठवण्णगोवरि समवसरणबिंबरूवस्स ।।१७।। व्याख्या-भुवनगुरोश्च त्रिभुवननायकस्य पुनः स्थापनार्हतः स्थापनान्यासः। कर्तव्य इति शेषः। किंभूतस्य? लोके पिता पूज्यः पितामहस्तु पूज्यतरः पितुरपि पूज्यत्वात्। ततः सकलजगतः समस्तभुवनजनस्य पितामह इव पितामहः सकलजगत्पितामहः । अथवा सकलजगतो धर्मः पिता, पालनाभियुक्तत्वात्। तस्यापि भगवान् पिता, भगवत्प्रभवत्वाद्धर्मस्येति पितुः पिता पितामहः। सकलजगतः पितामह इति विग्रहः। अतस्तस्य। 'तो त्ति' ततश्चैत्यतरुसिंहासनादिन्यासानन्तरम्। सम्यगवैपरीत्येन। क्व स्थापनाकार्येत्याह-उत्कृष्टवर्णकस्य प्रधानचन्दनस्योपरिउपरिष्टादुत्कृष्टकर्णकोपरि। किंभूतस्य भुवनगुरोः? समवसरणे जिनधर्मदेशनाभूमौ यानि देवतानिर्मितानि तस्यैव बिम्बानि प्रतिकृतयस्तेषामिव रूपं स्वभावो यस्य स समवसरणबिम्बरूपोऽतस्तस्य चतुर्मुखस्य विशिष्टरूपस्यैवेति गाथार्थः ।।१७।। तथाएयस्स पुव्वदक्खिणभागेणं मग्गओ गणधरस्स। मुणीवसभाणं वेमाणिणीण तह साहुणीणं च ||१८|| व्याख्या-एतस्य भुवनगुरोः पूर्वदक्षिणाया आग्नेयदिशो भाग एकदेशः पूर्वदक्षिणदिग्भागस्तेन करणभूतेन हेतुभूतेन वा। मार्गतः पृष्ठतो गणधरस्य गणनायकस्य। मुनिवृषभाणां सातिशयादियति पुङ्गवानाम्। तथा विमानिकदेवास्तेषामेता वैमानिन्योऽतस्तासां वैमानिनीनां देवीनाम्। तथेति समुच्चयार्थः । तेन स्थापना कार्येति सम्बध्यते। साध्वीनां तपस्विनीनाम्। चशब्दः समुच्चयार्थ इति गाथार्थः ।।१८।। तथाइय अवरदक्खिणेणं देवीणं ठावणा मुणेयव्वा । भुवणवइवाणमंतरजोइससंबंधणीण ति।।१९।। व्याख्या-इति एवमेव यथा मुनिवृषभादित्रयस्यासंकीर्णतया स्थापना कृता एवं भवनपत्यादिदेवीत्रयस्यापि सा कार्येत्यर्थः । अपरदक्षिणेनापरदक्षिणस्यां दिशि। सप्तम्यर्थो ह्ययमेनप्रत्ययः । देवीनां सुरवधूनाम्। स्थापना न्यासः ।'मुणेयव्वत्ति' ज्ञातव्या कर्तव्यतयेति शेषः । भवनपतयो देवालयविशेषनाथा असुरादयः, 'वाणमंतर त्ति' वनानामुद्यानानामन्तराणि कुहराणि विशेषा वा वनान्तराणि तेष भवा मकारवर्णागमात वानमन्तरा व्यन्तराः, ज्योतिषि ज्योतिश्चक्रे भवा ज्योतिषा ज्योतीषं वा ज्योतिष्कदेवाः । एतेषां द्वन्द्वोऽतस्तेषां सम्बन्धिन्यः सत्का यास्तास्तथा तासाम्। इतिशब्दो द्वितीयपर्षदः समाप्तिप्रदर्शनार्थः । इति गाथार्थः ।।१९।। तथाभवणवइवाणमंतरजोइसियाणं व एत्थ देवाणं । अवरुत्तरेणं णवरं निद्दिट्ठा समयकेऊहिं ।।२०।। व्याख्या-भवनपतिवानमन्तरा उक्तनिर्वचनाः। 'जोइसिय त्ति ज्योतिषि ज्योतिश्चक्रे जाता ज्योतिषिजाः, ज्योतिषि वा भवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org