________________
७७
ધર્મતીર્થ સ્થાપના - ઉદેશ અને વિધિ
“અરે ! શાસ્ત્રમાં તો દીક્ષા આદિના અવસરે આ નાણ માંડવાની સાંગોપાંગ વિધિ એક ઉત્તમ અનુષ્ઠાન તરીકે અનિવાર્ય કરવાની દર્શાવી છે. તેમાં સૌ પ્રથમ વાયુકુમારદેવતાનું મંત્રોચ્ચાર અને મુદ્રા દર્શાવવાપૂર્વક આહ્વાન કરીને તે દેવતાના કાર્યની વિધિ કરવી, એમ ક્રમશઃ મેઘકુમારદેવ, १. उक्ता दीक्षा, तद्योग्यश्चाधुना दीक्षाविधिर्वाच्यः, स च समवसरणरचनादिरूपः, अतः समवसरणरचनां तावदर्शयन्नाहवाउकुमाराईणं आहवणं णियणियेहि मन्तेहिं। मुत्तासुत्तीए किल पच्छा तक्कम्मकरणं तु।।१२।। व्याख्या-वायुकुमारादीनामागमप्रसिद्धदेवविशेषाणाम्। आदिशब्दान्मघकुमारादिपरिग्रहः । आह्वानं संशब्दनम्। कार्यमिति शेषः । कैरित्याह-निजनिजैः स्वकीयस्वकीयैः । मन्त्रैः प्रणवनमःपूर्वकस्वाहान्ततनामरूपैर्यथासम्प्रदायमागतैः । मुक्ताशुक्त्या मुक्ताफलयोन्याकारया हस्तविन्यासमुद्रया। किलेत्याप्तसम्प्रदायसूचकमाह्वानस्य वाऽतात्त्विकत्वसूचकं, तदतात्त्विकं चाह्वानेऽपि तेषां प्राय आगमनासम्भवात् तत्संस्मरणस्यैवेह विधेयत्वादिति। पश्चादाह्वानानन्तरम्। तत्कर्मकरणं तु तेषां वायुकुमारमेघकुमारादिदेवानां यत्कर्म भूप्रमार्जनोदकसेचनादिरूपो व्यापारस्तस्य विधानमेव। तु शब्द एवकारार्थः पुनःशब्दार्थो वा। स चैवं दृश्यः-पश्चात्पुनः। इति गाथार्थः ।।१२।। एतदेव दर्शयितुमाहवाउकुमाराहवणे पमज्जणं तत्थ सुपरिसुद्धं तु। गंधोदगदाणं पुण मेहकुमाराहवणपुव्वं । ।१३।। व्याख्या-वायुकुमाराह्वाने मरुत्कुमारदेवसंशब्दने। कृते सतीति गम्यम्। प्रमार्जनं भूमिशुद्धिरूपं कर्तव्यं भवतीति गम्यम्। तत्रेति समवसरणभूमौ। सुपरिशुद्धं तु सर्वकचवराद्यपहरणेनातिशुद्धमेव। एते किल मयाहूता वायुकुमारदेवा भगवत्समवसरणभुवं शोधयन्तीतिकल्पनयेति हृदयम्। गन्धोदकदानं सुरभिजलवर्षणम्। पुनःशब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विलक्षणताप्रतिपादनार्थः । मेघकुमाराह्वानपूर्वं मेघकारिदेवसंशब्दनपुरःसरं स्वयमेव कार्यम्। भगवत्समवसरणे हि वायुकुमारैभूमिशुद्धौ कृतायां रजःप्रशमनार्थं मेघकुमारा गन्धोदकवर्ष कुर्वन्तीति स्थितिः । कल्पना तु पूर्ववदेव। इति गाथार्थः ।।१३।। तथाउउदेवीणाहवणे गंधड्डा होइ कुसुमवुड्डि त्ति। अग्गिकुमाराहवणे धूवं एगे इहं बेन्ति ।।१४।। व्याख्या- ऋतुदेवीनां वसन्तग्रीष्पवर्षाशरद्धेमन्तशिशिराभिधानदेवतानामाह्वाने संकीर्तने कृते सति। गन्धाढ्या सद्गन्धगुणसमृद्धा। भवति वर्तते। विधेयेति गम्यम्। कुसुमवृष्टिदशार्थवर्णपुष्पवर्षः। इतिशब्दः समाप्त्यर्थः। ततश्च कुसुमवर्षकरणेनैव ऋतुदेवीकर्म परिसमाप्तं भवतीति भणितं भवति। अग्निकुमारावाने तैजसदेवसंकीर्तने कृते सति। धूपं कालागुरुप्रभृतिकम्। एके केचनाचार्याः इह समवसरणव्यतिकरे। ब्रुवतेऽग्निभाजनप्रक्षेप्यतया प्रतिपादयन्ति। अन्ये तु सामान्यतो देवाह्वाने। यत आवश्यकटीकाकृतोक्तं-"धूपघटिका विकुर्वन्ति त्रिदशा एवेति" गाथार्थः ।।१४।। तथावेमाणियजोइसभवणवासियाहवणपुव्वगं तत्तो। पागारतिगण्णासो मणिकंचणरुप्पवण्णाणं ।।१५।। व्याख्या-वैमानिकाश्च सौर्मिकादयः, ज्योतींषि च चन्द्रादयः, भवनवासिनश्चासुरादयः तेषामाह्वानं संशब्दनं पूर्व प्रथम यत्र प्राकारत्रयन्यासकरणे तत्तथा क्रियाविशेषणमिदम्। ततो धूपदानानन्तरम्। प्राकाराणां शालानां त्रिकस्य त्रयस्य न्यासो न्यसनं प्राकारत्रिकन्यासः। कर्तव्यो भवतीति शेषः। किंभूतानां प्राकाराणामित्याह-मणिकाञ्चनरूप्याणामिव रत्नस्वर्णकलधौतानामिव वर्णश्छाया येषां ते तथा तेषाम्। भगवतो हि समवसरणे वैमानिकादयो देवा अन्तर्मध्ये बहिश्च क्रमेण मणिमयादीन् त्रीन् प्राकारान् कुर्वन्तीति। इह च प्राकार इत्यस्य पदस्य समासान्तर्भूतस्याप्यन्तर्वतिषष्ट्यन्ततामाश्रित्य मणिकाञ्चनरूप्यवर्णानामित्येतत्पदं विशेषणतया सम्बध्यते। अथवा मणिकाञ्चनरूप्यवर्णानां द्रव्याणां सक्तः प्राकारत्रयन्यासः । इति गाथार्थः ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org