Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 22
________________ परीक्षा भवन्ति, ते एव धर्मप्रतिपादकस्य प्रस्तुतग्रन्थस्यापि भवन्त्येव । इत्थञ्च यतोऽयं धर्मप्रतिपादको ग्रन्थो धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमानस्ति, ततः प्रकृतग्रन्थस्य प्रयोजनादयः सामर्थ्यात् = अर्थापत्त्या ज्ञायन्त एवेति भावः । शुन्द्र : प्रश्न : सा गाथामां ग्रन्धनुं प्रयोधन, संबंध प्रेम नथी जताव्या ? ઉત્તર : પ્રયોજન વગેરે તો સામર્થ્યથી = અર્થપત્તિથી સમજી લેવાના છે. પ્રશ્ન ઃ પણ અમે સામર્થ્યથી સમજી શકતા નથી. ઉત્તર : આ ગ્રન્થ શેનો પ્રતિપાદક છે ? ધર્મનો ! એટલે આ ગ્રન્થ ધર્મશાસ્ત્ર રૂપ છે. એટલે ધર્મશાસ્ત્રના જે પ્રયોજન+સંબંધ હોય, એ જ આના પણ હોવાના જ. એ કહેવાની જરૂર જ નથી. આથી ધર્મશાસ્ત્રના પ્રયોજનાદિ વડે જ આ ગ્રન્થ પ્રયોજનાદિમાન સમજી લેવાનો છે. [અનંતર પ્રયોજન સમ્યજ્ઞાન, પરંપર પ્રયોજન મોક્ષ ! સંબંધ છે गुरुपरंपरा !] यशो० किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम् = अविच्छिन्न पूर्वाचार्यपरम्पराबचनानुसरणपवित्रम्, तथा आगमयुक्तिभ्यां = सिद्धान्ततर्काभ्यामविरुद्धं = अबाधितार्थम् । एतेनाभिनिवेशमूलकस्वकपोलकल्पनाऽऽशङ्का परिहृता भवति । चन्द्र० : अविच्छिन्नेत्यादि । अविच्छिन्नायाः पूर्वाचार्याणां परम्पराया, यानि वचनानि तेषां यदनुसरणं, तेन पवित्रं = निर्दोषमिति । एतेन = 'गुरूपरिपाटीशुद्धम्' 'आगमयुक्तिभ्यामविरुद्धम्' इति विशेषणद्वयप्रतिपादनेन अभिनिवेशमूलत्वेत्यादि । अयं भावः -- :- श्रोतॄणां हि प्रस्तुतग्रन्थे शङ्का सम्भवति यदुत 'अस्मिन ग्रन्थे प्ररुप्यमाणो धर्मपरीक्षाविधिः किं अभिनिवेशमूलकया ग्रन्थकारस्य स्वस्य कपोलकल्पनया निर्मिती वर्तते, यवा आगमादिभिरबाधितार्थरुपो वर्तते ?" 'एतादृशीशङ्का मा भवेत्' इत्येतदर्थं ग्रन्थकारेण विशेषणद्वयं प्रतिपादितम् । तद्विशेषणद्वयं च दृष्ट्वा श्रोतारो निश्चिन्वन्ति यत् 'यतोऽयं धर्मपरीक्षाविधिः तर्कागमाभ्यामबाधितः, गुरुपरिपाटीशुद्धश्च वर्तते, ततो नात्र प्ररुप्यमाणे धर्मपरीक्षाविधौ अभिनिवेशमूलकस्वकपोलकल्पनाऽवकाशः सम्भवति' इति । ********** ननु यत् गुरुपरिपाटीशुद्धं भवति, तत् तर्कागमाविरूद्धमेव भवति । यच्च तर्कागमाविरूद्धं મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - જીતશેખરીયા ટીા - ગુજરાતી વિવેચન સહિત હ.

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154