Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
****************************
ધર્મપરીક્ષા
"स्त्रीमुक्तिर्न भवति, साधुना वस्त्रं न धारणीयम्" इत्यादिरूपं तीर्थोच्छेदाभिप्रायेणैव तपागच्छात्मकस्य तदभिमतसत्तत्त्वरूपस्य वा तीर्थस्य य उच्छेदस्तदभिप्रायेणैव भवतीति भवतः पूर्वपक्षस्य तपागच्छान्तर्वर्तिन उत्सूत्रप्ररूपकस्य मतम् । तदा उत्सूत्राचरणप्ररूपणप्रवणानां = सूत्रविरुद्धाचारप्ररूपणासक्तचेतसां व्यवहारतो मार्गपतितानां मिथ्यादृष्टिगुणस्थानवर्तिनामपि "तपागच्छीयः साधुः" इति नामधारिणां, अत एव नाममात्रतस्तपागच्छात्मकमार्गस्थितानां यथाच्छन्दादीनां उत्सूत्रभाषकादीनां उत्सूत्र भाषणमपि सूत्रोच्छेदाभिप्रायेणैव आगमोक्तपदार्थखण्डनाध्यवसायेनैव स्यात् ।
=
=
=
=
ननु दिगम्बरादीनां स्त्रीमुक्तिनिषेधादिरूपमुत्सूत्र भाषणं तपागच्छाभिमततत्त्वरूप तीर्थोच्छेदकारणमस्ति, ततश्च यथा दण्डादिरूपाणि घटकारणानि गृह्णन् घटोत्पादाभिप्रायवान् अनुमीयते, तथैव तीर्थोच्छेदकारणं विवक्षितमुत्सूत्र भाषणमाश्रयन् दिगम्बरादिः तीर्थोच्छेदाभिप्रायवान् अनुमीयते एव । ततश्च तस्योत्सूत्रभाषणं तीर्थोच्छेदाभिप्रायेणैवेति वक्तुं युक्तम् । किन्तु तपागच्छीयस्योत्सूत्रप्ररूपकस्य तीर्थोच्छेदाभिप्रायः = सूत्रोच्छेदाभिप्राय: = मार्गोच्छेदाभिप्रायः कथं वक्तुं शक्यते ? तं विनैव तस्योत्सूत्रप्ररूपणं कथं न सम्भवेद् ? इत्याशङ्कायामाहविरूद्धमार्गाश्रयणस्येवेत्यादि ।
=
विरूद्धमार्गाश्रयणस्येव
तपागच्छभिन्नदिगम्बरादिमतस्वीकारस्येव सूत्रविरूद्धाश्रयणस्यापि = तपागच्छान्तर्वर्तिनोऽपि साधोः यजिनाविरुद्धपदार्थाभ्युपगमः, तस्यापि मार्गोच्छेदकारणस्य = मार्गोच्छेदकारणत्वस्येति भावः अविशेषात् = समानत्वादिति तावत् अक्षरार्थः ।
=
भावार्थस्त्वयम् - यथा दिगम्बरमताश्रयणं तपागच्छात्मकस्य तपागच्छाभिमततत्त्वरूपस्य वा मार्गस्य उच्छेदस्य कारणम्, अत एव दिगम्बरमताश्रयणवान् मार्गोच्छेदाभिप्रायवान् गण्यते । न हि कारणव्यापृतः कार्यार्थी न भवति इति । तथैव तपागच्छीयसाधोरपि सूत्रविरूद्धप्ररूपणं सूत्रात्मकस्य मार्गस्योच्छेदस्य कारणमेव । ततश्च सूत्रविरूद्धप्ररूपणात्मकं कारणं स्वीकुर्वाणो मुनिः तपागच्छीयोऽपि सन् सूत्रात्मकमार्गोच्छेदाभिप्रायवाननुमीयत एव । एवं च यथा दिगम्बरमताश्रयी उन्मार्गगामी, तथैव उत्सूत्रप्ररूपकस्तपागच्छीयोऽपि उन्मार्गगाम्येव ।
इदमेवाह । तथा च द्वयोरपि
दिगम्बरादिमताश्रयिण उत्सूत्रप्ररूपकतपागच्छीयसाधोश्चापि उन्मार्गः =तपागच्छात्मकमार्गोच्छेदरूपो जिनागमात्मकमार्गोच्छेदरूपो वा समान एव । तस्मात् "एकस्य नियमेनानन्तसंसारः, अपरस्य तु न" इति एकान्तो न मनोरम इति
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત હૈં ૨૫

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154