Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 93
________________ DIDIODIDIधर्मपरीक्षा यशो० उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद् ? चन्द्र : पूर्वपक्षः शङ्कते-उत्तरकालं = पूर्वापरपदार्थचिन्तनानन्तरं तत्र = प्रकृतपाठेन प्रतिपादिते अनन्तसंसारकारणीभूते उत्सूत्रभाषणे नियतत्वाख्यो विशेषः कल्प्यते अनुमीयते । यद्यपि प्रथमं तु एतत्पाठेन सामान्योत्सूत्र भाषणस्यैव तथाविधानन्तसंसारकारणत्वं ज्ञायते, किन्तु तदनन्तरं यदा पूर्वापरपदार्थचिन्तनं क्रियते, तदा एतादृशे कार्यकारणभावे कल्प्यमानेऽन्वयव्यभिचार उपढौकते यदुत "यथाछन्दानां उत्सूत्रभाषणमस्ति, किन्तु अनन्तः संसारो नास्ति । तथा च कारणसत्त्वेऽपि कार्याभाव इति कृत्वाऽन्वयव्यभिचारः" इति । ततश्च न सामान्यमुत्सूत्र भाषणं अनन्तसंसारकारणं, किन्तु नियतमुत्सूत्रभाषणमनन्तसंसारकारणमिति कल्प्यत इति पूर्वपक्षाभिप्रायः । = ચન્દ્ર : પૂર્વપક્ષ : આ શાસ્રપાઠ વાંચવાથી સૌ પ્રથમ આ જ અર્થ થાય કે “ઉત્સૂત્રભાષકોનો અનંત સંસાર થાય છે” પરંતુ એ અર્થ કર્યા બાદ જ્યારે ઉંડાણથી વિચાર કરીએ ત્યારે આમાં અન્વયવ્યભિચાર ઉભો થાય કે “યથાછંદોને ઉત્સૂત્રભાષણ छे, छतां अनंतसंसार नथी. " આમ કારણ હોવા છતાં કાર્ય ન હોવા રૂપ અન્વયવ્યભિચાર ઉપસ્થિત થવાથી એ શાસ્ત્રપાઠમાં રહેલા ઉત્સૂત્રભાષક શબ્દનો અર્થ ‘નિયત-ઉત્સૂત્રભાષણ’ એમ કરવો જ પડે. યથાછંદોમાં નિયતોસૂત્રભાષણ ન હોવાથી એમનો અનંતસંસાર ન થાય તો ય એમાં હવે કોઈ વાંધો ન આવે. હવે આ રીતે નિયત ઉત્સૂત્રભાષણ જ અનંતસંસારકારણ તરીકે સિદ્ધ થાય. यशो० नैतदेवम्, तथा सति यथाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य त्वदभिप्रायेणापरापरभावेन गृहीतमुक्तोत्सूत्रस्य नियतोत्सूत्रभाषित्वाभावात् । चन्द्र : पूर्वपक्षं खण्डयति - नैतदेवम् = यद् भवतोक्तं तन्न । तत्र कारणमाह- तथा सति नियतोत्सूत्र भाषणस्यैव तादृशनन्तसंसारकारणत्वे सति । अनन्तसंसारितानुपपत्तिप्रसक्तेः = अनन्तसंसाराऽघटमानताऽऽपत्तेः । ननु कथं कस्यापि यथाछन्दस्यानन्तसंसारो न घटेत ? इत्यतः कारणमाह-तस्य = यथाछन्दस्य त्वदभिप्रायेण = मम तु तावदेतन्नाभिमतमेवेति भावः । गृहीतमुक्तोत्सूत्रस्य મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૭ ૮

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154