Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
* તિર્યંચયોનિને પામશે કે જ્યાં બોધિ = જિનધર્મપ્રાપ્તિ અત્યંત દુર્લભ છે.
Sxxxx
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
* यशो० एतवृत्तिर्यथा-'लभ्रूण वित्ति। लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपत्रो । देवकिल्बिषनिकाये। तत्राप्यसौ न जानाति विशुद्धावध्यभावात्, "किं मम कृत्वेदं फलं : किल्बिषिकदेवत्वमिति' । अस्य दोषान्तरमाह 'तत्तो वित्ति, ततोऽपि देवलोकादसी च्युत्वा । लप्स्यते एडमूकतां=अजभवानुकारिमनुष्यत्वं। तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभा सकलसम्पत्तिनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह ‘प्राप्नोत्येडमूकताम्' : इति वाच्ये असकृद्भवप्राप्तिख्यापनार्थं 'लप्स्यते' इति भविष्यत्कालनिर्देशः'। इति चेत्? . चन्द्र : दशवैकालिकगाथयोः श्रीहरिभद्रसूरिकृतां वृत्तिं प्रदर्शयति-एतदत्ति इत्यादि । स्पष्टम्, नवरं 'तथाविधक्रियापालनवशेन' इत्यनेन देवत्वलाभकारणं निगदितम् । 'विशुद्धावध्यभावात्' इत्यनेन पूर्वभवपापपरिज्ञानाभावकारणं प्रदर्शितम् । किं मम कृत्वेत्यादि ।
कस्याशुभपापकर्मण इदं हीनदेवत्वात्मकं फलं मम सञ्जातमिति भावः। .. * अस्य = किल्बिषिकदेवभवे उत्पन्नस्य दोषान्तरं = हीनदेवत्वात्मकदोषसकाशादन्यं । * दोषं । अजभवानुकारिमनुष्यत्वं = यथा हि अजो 'बें बें' इत्येव शब्दं करोति, न तु - * स्पष्ट भाषां भाषितुं समर्थो भवति । एवं उत्सूत्रभाष्यपि वाचो दुरूपयोगकरणात् देवभवानन्तरं ।
मनुष्यभवे अजसदृशभाषाभाषित्वं प्राप्नोति इति भावः । पारपर्चेण = उत्सूत्रभाषी निहवो । में बाह्यक्रियापालनात् अनन्तरभवे देवत्वं प्राप्नोति, देवश्च न भवस्वाभाव्याद् नरकगामी, इत्यतो
नरकत्वादिलाभस्तस्य मनुजादिभवानन्तरभावी इति 'पारम्पर्येण' इत्युक्तम् सकलसम्पत्तिनिबन्धना = इहलोकपरलोकपरमलोकसुखजनयित्री । यत्र = मनुष्यभवादौ ।
ननु "लप्स्यते एडमूकतां" इत्यत्र यो भविष्यत्कालप्रयोगः कृतः, स न युक्तः । यतो। यदि कस्यचिद्व्यक्तिविशेषस्य कथानकं यदा वर्ण्यते, तदा तस्य भविष्यत्कालसम्बन्धि* फलवर्णने भविष्य कालप्रयोगो युक्तः, यथा "गोशालकोऽनन्तभवान् भ्रान्त्वा पश्चात्सेत्स्यति"
इति । यदा तु व्यक्तिविशेषमपुरस्कृत्य त्रिकालसम्भविनः सिद्धान्तमात्रस्य निरुपणं क्रियते, . * तदा तु वर्तमानकालप्रयोग एव न्याय्यः, यथा "विशुद्धचारित्रपालक उत्कर्षतोऽपि अष्टमे । * भवे सिद्ध्यति" इति । न हि अत्र "सेत्स्यति" इति पाठो ज्यायान् । एवं दशवैकालिकेऽपि में त्रिकालसम्भविनः सिद्धान्तमात्रस्य निरुपणं क्रियते, ततश्च तत्र एडमूकता लप्स्यते इति वचनं । न युक्तम् । किन्तु "एडमूकतां प्राप्नोति" इत्येव वचनं ज्याय इति शङ्कायामाह-इह =
મહામહોપાધ્યાય યશોવિજયજી વિહિત ધર્મપરીક્ષા - થનારીખીય ટીમ + ગુજરાતી વિવેચન સહિત જ હe.

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154