________________
DIDIODIDIधर्मपरीक्षा
यशो० उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद् ?
चन्द्र : पूर्वपक्षः शङ्कते-उत्तरकालं = पूर्वापरपदार्थचिन्तनानन्तरं तत्र = प्रकृतपाठेन प्रतिपादिते अनन्तसंसारकारणीभूते उत्सूत्रभाषणे नियतत्वाख्यो विशेषः कल्प्यते अनुमीयते । यद्यपि प्रथमं तु एतत्पाठेन सामान्योत्सूत्र भाषणस्यैव तथाविधानन्तसंसारकारणत्वं ज्ञायते, किन्तु तदनन्तरं यदा पूर्वापरपदार्थचिन्तनं क्रियते, तदा एतादृशे कार्यकारणभावे कल्प्यमानेऽन्वयव्यभिचार उपढौकते यदुत "यथाछन्दानां उत्सूत्रभाषणमस्ति, किन्तु अनन्तः संसारो नास्ति । तथा च कारणसत्त्वेऽपि कार्याभाव इति कृत्वाऽन्वयव्यभिचारः" इति । ततश्च न सामान्यमुत्सूत्र भाषणं अनन्तसंसारकारणं, किन्तु नियतमुत्सूत्रभाषणमनन्तसंसारकारणमिति कल्प्यत इति पूर्वपक्षाभिप्रायः ।
=
ચન્દ્ર : પૂર્વપક્ષ : આ શાસ્રપાઠ વાંચવાથી સૌ પ્રથમ આ જ અર્થ થાય કે “ઉત્સૂત્રભાષકોનો અનંત સંસાર થાય છે” પરંતુ એ અર્થ કર્યા બાદ જ્યારે ઉંડાણથી વિચાર કરીએ ત્યારે આમાં અન્વયવ્યભિચાર ઉભો થાય કે “યથાછંદોને ઉત્સૂત્રભાષણ छे, छतां अनंतसंसार नथी. "
આમ કારણ હોવા છતાં કાર્ય ન હોવા રૂપ અન્વયવ્યભિચાર ઉપસ્થિત થવાથી એ શાસ્ત્રપાઠમાં રહેલા ઉત્સૂત્રભાષક શબ્દનો અર્થ ‘નિયત-ઉત્સૂત્રભાષણ’ એમ કરવો જ પડે. યથાછંદોમાં નિયતોસૂત્રભાષણ ન હોવાથી એમનો અનંતસંસાર ન થાય તો ય એમાં હવે કોઈ વાંધો ન આવે.
હવે આ રીતે નિયત ઉત્સૂત્રભાષણ જ અનંતસંસારકારણ તરીકે સિદ્ધ થાય.
यशो० नैतदेवम्, तथा सति यथाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य त्वदभिप्रायेणापरापरभावेन गृहीतमुक्तोत्सूत्रस्य नियतोत्सूत्रभाषित्वाभावात् ।
चन्द्र : पूर्वपक्षं खण्डयति - नैतदेवम् = यद् भवतोक्तं तन्न । तत्र कारणमाह- तथा सति नियतोत्सूत्र भाषणस्यैव तादृशनन्तसंसारकारणत्वे सति । अनन्तसंसारितानुपपत्तिप्रसक्तेः = अनन्तसंसाराऽघटमानताऽऽपत्तेः ।
ननु कथं कस्यापि यथाछन्दस्यानन्तसंसारो न घटेत ? इत्यतः कारणमाह-तस्य = यथाछन्दस्य त्वदभिप्रायेण = मम तु तावदेतन्नाभिमतमेवेति भावः । गृहीतमुक्तोत्सूत्रस्य
મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૭ ૮