Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 98
________________ XXXXXXXXXX ન ધર્મપરીમા को दोषः ? इति व्यभिचारशङ्कायां सत्यां कार्यकारणभावात्मकस्यानुकूलतर्कस्याभावः । अयमाशयः, पर्वतो वह्निमान् धूमात् इत्यादौ 'अस्तु धूमः, मास्तु बह्निः' इति व्यभिचारशङ्कायां सत्यां अनुकूलतर्केण सा शङ्का दूरीक्रियते, यथा धूमः कार्यं, वह्नि तत्र कारणम्, ततश्च यदि पर्वते वह्निः न स्यात्, तर्हि धूमोऽपि न स्यात् । किन्तु धूमस्तु दृश्यते । तस्मादवश्यं वह्निरपि स्वीकर्तव्य एव' इति । एवं च प्रकृतानुमानेन पर्वते वह्निः साध्यते । किन्तु यत्र व्यभिचारशङ्कानिवारकोऽनुकूलस्तर्को न प्राप्यते, तत्र तु हेतोरप्रयोजकत्वं, ततश्च साध्यासाधकत्वमेव भवति । प्रकृते ऽनन्तसंसारोऽहेतुकः सिद्धः, ततश्च नियतोत्सूत्र भाषणमनन्तसंसारस्य कारणं नास्त्येव । एवं च प्रकृतानुमाने - 'अस्तु नियतोत्सूत्र भाषणं, मास्तु अनन्त संसारः को दोषः ?' इति व्यभिचारशङ्काया निवारकः कार्यकारणभावात्मकोऽनुकूलस्तुर्को नास्त्येव । तदभावे चानुमानस्याप्रयोजकत्वं, ततश्च तेन साध्यसिद्धिर्दुरापास्तैवेति उन्मार्गस्थस्य नियतोत्सूत्र भाषिणो ऽपि अनन्तसंसारो न सिद्ध्येदिति महतीयं विडम्बना भवतामिति । (चन्द्र : अत्रेदं बोध्यम्, मैथुनप्रतिसेवनादिभिरनियतकारणैः अनन्तसंसारार्जनमस्माकमपि सम्मतमेव । ततश्च यदस्माभिः पूर्वपक्षस्येयमापत्तिः प्रदत्ता यदुत "अनियतकारणकोऽनन्तसंसारोऽकारणकः स्यात्" इत्यादि, साऽस्माकमपि उपढौकते । किन्तु साऽऽपत्तिरस्माकं न भविष्यति । यतो व्यवहारत एव उत्सूत्रप्ररुपणमैथुनप्रतिसेवादीनि अनियतकारणानि अस्माभिरभ्युपगम्यते, निश्चयतस्तु अनन्तसंसारस्यानुगतं नियतं कारणं मन्यामह एव । तच्चानन्तरमेव प्रतिपादयिष्यते ।) = 小 ચન્દ્ર : પૂર્વપક્ષ : ભલે ને, અનંતસંસાર અનિયતહેતુક = કોઈપણ હેતુથી ઉત્પન્ન ન થનારો = એમને એમ ઉત્પન્ન થનારો સિદ્ધ થાઓ, એમાં અમને શું વાંધો ? उत्तरपक्ष : भोटो वांधो छे. उमड़े के अनियतहेतुङ होय, ते खहेतुङ ४ होय.... એવું સ્યાદ્વાદરત્નાકરમાં સ્પષ્ટ રીતે દર્શાવવામાં આવ્યું છે. એટલે કે એ કાર્યનો કોઈ જ हेतु न गंशय, खेम ४ मानपुं. અને જો આ રીતે અનંતસંસાર અહેતુક સિદ્ધ થાય તો પછી તમારું જે અનુમાન છે = શાસ્ત્રવિરુદ્ધ માન્યતાવાળો "विप्रतिपन्न ઉત્સૂત્રપ્રરૂપક, ઉન્માર્ગસ્થ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨૮૩ =

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154